गोपवेष मायया मायेश सुवेष सुशील शान्त सर्वकान्त दान्त नितान्तज्ञानानन्द परात्परतर प्रकृतेः पर सर्वान्तरात्मरूप निर्लिप्त साक्षिस्वरूप व्यक्ताव्यक्त निरञ्जन भारावतारण करुणार्णव शोकसेतापग्रसन जरामृत्युभयादिहरण शरणपञ्जर भक्तानुग्रहकारक भक्तवत्सल भक्तसंचितधन ओं नमोऽस्तु ते
सर्पाधिष्ठातृदेवायेत्युक्त्वा वै प्रीणनाय च । पुनःपुनःरुवाचेदं मूर्च्छितश्च बभूव ह
इति ब्रह्मकृतं स्तोत्रं यः शृणोति समाहितः । तत्सर्पाभीष्टसिद्धिश्च भवत्येव न संशयः
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् । निर्धनो लभते सत्यं परिपूर्णतमं धनम्
इह लोके सुखं भुक्त्वा चान्ते दास्यं लभेद्धरेः । अचलां भक्तिमाप्नोति मुक्तेरपि सुदुर्लभाम्
स्तुत्वा च जगतां धाता प्रणम्य च पुनः पुनः । शनैः शनैः समुत्थाय भक्त्या पुनरुवाच ह
ब्रह्मोवाच उत्तिष्ठ देवदेवेश परमानन्दकारण । नन्दनन्दन सानन्द नित्यानन्द नमोऽस्तु ते
व्रज नन्दालयं नाथ त्यज वृन्दावनं वनम् । स्मर सृदामशापं च शतवर्षनिबन्धनम्
भक्तशापानृरोधेन शतवर्ष प्रियां त्यज । पुनरेनां च संप्राप्य गोलोकं च गमिष्यसि
गत्वा पितृगृहं देव पश्याकूरं समागतम् । पितृव्यमतिथिं मान्यं धन्यं वैष्णवमीश्वर
तेन सार्धं मधुपुरीं भगवान् गच्छ संप्रतम् । कुरु शंभोर्धनुर्भङ्गं भग्नं वैरिगणं हरे
हन कंसं दुरात्मानं तातं बोधय मातरम् । निर्माणं द्वारकायाश्च भारावतरणं भुवः
दह वाराणसीं शंभोः शक्रस्य सदनं विभो । शिवस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम्
रुक्मिणीहरणं नाथ घातनं नरकस्य च । षोडशानां सहस्रं च स्त्रीणां पाणिग्रहं कुरु
त्यज प्रियां प्राणसमां व्रजेश्वर व्रजं व्रज । उत्तिष्ठोत्तिष्ठ भद्रं ते यावद्राधा न जाग्रति
त्येवमुक्त्वा ब्रह्मा च सेन्द्रैर्देवगणैः सह । जगाम ब्रह्मलोकं च शेषश्च शंकरस्तथा
पुष्पचन्दनवृष्टिं च कुष्णस्योपरि देवताः । चक्रुः प्रीत्या च भक्त्या च वाग्बभूवाशरीरिणी
बध कंसं वथार्ह च स्वपित्रोर्मोक्षणं कुरु । क्षयं कुरुभुवो भारं नारदेत्येवमेव च
इत्येवं तद्वचः श्रुत्वा भगवान् भूतभावनः । राधा भगवतीं त्यक्त्वा समुत्तस्थौ शनैः शनैः
ययौ हरिः कियद्दूरं निरीक्ष्य च पुनः पुनः । क्षणं तस्थौ चन्दनानां वने वाससमीपतः
विहाय राधा निन्द्रां सा समुत्तस्थौ स्वतल्पतः । न निरीक्ष्य हरीं शान्तं कान्तं च प्राणवल्लभम्
हा नाथ रमण प्रेष्ठ प्राणेश प्राणवल्लभ । प्राणचोर प्रियतम क्व गतोऽसीत्युवाच ह
क्षणमन्वेषणं कृत्वा बभ्राम मालतीवनम् । उवास क्षणमुत्तस्थौ क्षणं सुष्वाप भूतले
रुरोद क्षणमत्युच्चैर्विललाप मुहुर्मुहुः । आगच्छाऽऽगच्छ हे नाथेत्येवसुक्त्वा पुनः पुनः
मूर्च्छां संप्राप संतापात्संप्तता विरहानलैः । भूतले च तृणाच्छन्ने पपात च यथा मृता
आययुस्तत्र गोप्यश्च ब्रह्मञ्छतसहस्रशः । काश्चिच्चामरहस्ताश्च गृहीत्वा चन्दनद्रवम्
तासां मध्ये प्रिया लीला कृत्वा राधां स्ववक्षसि । मृतामिव प्रियां दृष्ट्वा रुरोद प्रेमविह्वला
सजलं पङ्कजदलं पङ्कोपरि निधाय च । स्थापयामास तां राधां निश्चेष्टां च मृतामिव
गोपीभिः सेवितां तत्र रुचिरैः श्वेतचामरैः । चन्दनद्रवयुक्तां च स्निग्धवस्त्रान्वितां सतीम्
ददर्श कृष्णस्तत्रैत्य तामेव प्राणवल्लभाम् । निवारितश्च गोपीभिर्बलिष्ठाभिश्च नारद