प्रसन्नवदनं शान्तं परितुष्टं निरन्तरम्
ध्यात्वैवं गुरुमाराध्य हृत्पद्मे निर्मले सिते
यस्य देवस्य यद्ध्यानं यद्रूपं तद्विचिन्तयेत्
आदौ ध्यात्वा गुरुं नत्वा संपूज्य विधिपूर्वकम् 1.26.
गुरुप्रदर्शितो देवो मन्त्रपूजाविधिर्जपः
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः
गुरुर्वायुश्च वरुणो गुरुर्माता पिता सुहृत्
अभीष्टदेवे रुष्टे च समर्थो रक्षणे गुरुः
यस्य तुष्टो गुरुः शश्वज्जयस्तस्य पदे पदे
न संपूज्य गुरुं देवं यो मूढः पूजयेद् भ्रमात्
सामवेदे च भगवानित्युवाच हरिः स्वयम्
गुरुमिष्टं स्वयं ध्यात्वा स्तुत्वा वै साधको मुने
जलं जलसमीपं च सरन्धं प्राणिसन्निधिम्
हलोत्कर्षस्थलं चैव सस्यक्षेत्रं च गोष्ठकम् 1.26.
ग्रामाद्यभ्यन्तरं चैव नृणां गृहसमीपकम्
क्रीडास्थलं महारण्यं मंचकाधःस्थलं तथा
दूर्वास्थानं कुशस्थानं वल्मीकस्थानमेव च
एतत्सर्वं परित्यज्य सूर्य्यतापविवर्जितम्
पुरीषमूत्रोत्सर्गं च दिवा कुर्यादुदङ्मुखः
मौनी भूत्वा च निश्वासं यथा गन्धो न सञ्चरेत्
कृत्वा तु लोष्टशौचं च जलशौचं ततः परम्
एकां लिङ्गे मृदं दद्याद्वामहस्ते चतुष्टयम्
मूत्रशौचं द्विगुणितं मैधुनानन्तरं यदि
एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश 1.26.
पुरीषशौचं विप्राणां गृहिणामिदमेव च
यतीनां वैष्णवानां च ब्रह्मर्षेर्ब्रह्मचारिणाम्
नो यावदुपनीयेत द्विजः शूद्रस्तथाऽङ्गना
शौचं क्षत्रविशोश्चैव द्विजानां गृहिणां समम्
न्यूनाधिकं न कर्तव्यं शौचं शुद्धिमभीप्सता
शौचं तन्नियमं मत्तः सावधानं निशामय