कुष्णस्तां मूर्च्छितां दृष्ट्वा कृपया च कृपानिधिः । चेतनां कारयित्वा च वासयामास वक्षसि
बोधयामास विविधं योगैःशोकविखण्डनैः । तथाऽपि शोकं त्यक्तुं च न शशाक शुचिस्मिता
सामान्यवस्तुविश्लेषीनृणां शोकाय केवलम्। देहात्मनोश्च विच्छेदः क्व सुखाय प्रकल्पते
न ययौ तत्र दिवसे व्रजराजो व्रजं पति । क्रीडासरोवराभ्याशं प्रययौ राधाया सह
तत्र गत्वा पुनः क्रीडां चकार च तया सह । विजहौ क्रिहज्वालां रासे रासेश्वरी मुदा
राधा सा स्वामिना सार्धं पुष्पचन्दनचर्चिता । पुष्पचन्दनतल्पे च तस्थौ रहसि नारद
इति श्रीब्रह्मo महाo श्रीकृष्णजन्माखo उत्तo नारदनाo राधाशोक- विमोचनं नामाष्टषष्टितमोऽध्यायः
अथैकोनसप्ततितमोऽध्यायः नारद उवाच अतः परं किं रहस्यं राधाकेशवयोर्वद । निगूढतत्वामस्पष्टं तन्मे व्याख्यातुमर्हसि
नारायण उवाच शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् । गोपनीयं च वेदेषु पुराणेषु पुराविदाम्
पुनः सकामो भगवान्कृष्णः स्वेच्छामयो विभुः । रेमे स रमया सार्धं विदग्धश्च विदग्धया
चतुःषष्टिकलाशक्त्या यथा कान्ता कलावती । कामशास्त्रेषु निपुणा विदग्धा रसिकेश्वरी
शृङ्गारलीलानिपुणा शश्वत्कामा च कामुकी । सुन्दरी सुन्दरीष्वेव शश्वत्सुस्थिरयौवना
पितणां मानसी कन्या धन्या मान्या च मानिनी । शंभोः शिष्या ज्ञानयुता शतकल्पान्तजीविनी
वेदवेदाङ्गनिपुणा योगनीतिविशारदा । नानारूपधरा साध्वी प्रसिद्धा सिद्धयोगिनी
तत्कन्या राधिका देवी मातृतुल्या च कामुकी । चकार नानाभावं सा सुशीला स्वामिनं प्रति
चतुःषष्टिकलामानं श्रृङ्गारं च चकार सः । त्या विशिष्टया साकं रासे रामरसोत्सुकः
तां नखाग्रक्षतश्रोणीं नखक्षतपयोधराम् । लुप्तचन्दनसिंदूरां कबरीशिथिलां सतीम्
सुखसंभोगमग्नां च नग्नां च शोकमूर्च्छिताम् । पुलकाञ्चितसर्पाङ्गीं निद्रादेवी समाययौ
दृष्ट्वा तां निद्रितां कृष्णःकृपया च कृपानिधिः । रुरोद मायया मायी मयेशो लोकशिक्षया
कृत्वा वक्षसि राधां च चुचुम्ब च पुनः पुनः । स्नातां च नेत्रसलिलैः प्राणाधिष्ठातृदेवताम्
प्राणाधिकां प्रियतमां धारयामास वाससी । वह्निशुद्धेऽतिसूक्ष्मे चामूल्ये विश्वमुदुर्लभे
कबरीं च ददौ कुङ्कुमचन्दनम् । तद्गात्रे च गले हारममूल्यं रत्ननिर्मितम्
सिन्दूरं च ददौ तस्याः सीमन्ताधःस्थलेऽमले । दाडिमीकुसुमाकारं युक्तं चन्दनबिन्दुभि
चकार पद्मकं गण्डे नानाचित्रविचित्रकम् । ददौ तत्पादपद्मे च रत्नमञ्जीररञ्जितम्
पादाङ्गुलिनखागे च सुन्दरालक्तकं ददौ । नानासुवेषोज्ज्वलितां तां निद्राकुलितां विभुः
पुनश्चकार मोहेन गाढालिङ्गनमीप्सितम् । पुनश्च चुम्बनं कृत्वा निवेश्य च स्ववक्षसि
सुष्वाप जगतां स्वामी कान्ताविरहकातरः । एतस्मिन्नन्तरे काने ब्रह्मा लोकपितामहः
शिवशेषादिभिर्देवैर्मुनीन्द्रैः सार्धमाययौ । आगत्य नत्वा सिरसा तुष्टाव संपुटाञ्जलिः
सामवेदोक्तस्तोत्रेण परिपूर्णतमं विभुम्
ब्रह्मोवाच जय जय जगदीश वन्दितचरण निर्गुण निराकार स्वेच्छामय भक्तानुग्रह नित्यविग्रह