क्षणं गृहं च यास्यामि विशिष्टं कार्यमस्ति मे । विदायं देहि मे प्रीत्या क्षणं मां प्राणवल्लभे
प्राणाधिष्ठातृदेवी त्वं प्राणाश्च त्वयि सन्ति मे । प्राणी विहाय प्रणांश्च कुत्र स्थातुं क्षमः प्रिये
त्वयि मे मानसं शश्वत्तवं मे संसारवासना । त्वत्तो मम प्रिया नास्ति त्वमेव शंकरात्प्रिया
प्राणा मे शंकरः सत्यं त्वं च प्राणाधिका सति । इत्युक्त्वा तां समाश्लिष्य भगवान् गन्तुसुद्यतः
अक्रूरागमनं ज्ञात्वा सर्वज्ञः सर्वसाधनः । आत्मा पाता च सर्वेषां सर्वोपकारकारकः
दृष्ट्वा तमेव गच्छन्तमुत्सुकं भिन्नमानसम् । उवाच राधिका देवी हृदयेन विदूयता
राधिकोवाच हे नाथ रमणप्रेष्ठ श्रेष्ठश्च प्रेयसां मम । हे कृष्ण हे रमानाथ व्रजेश मा द्रज व्रजम्
अधुना त्वां प्राणनाथ पश्यामि भिन्नमानसम् । गते त्वयि मम प्रेम गतं सौभाग्यमेव च
क्व यासि मां विनिक्षिप्य गम्भीरे शोकसागरे । विरहव्याकुलां दीनां त्वय्येव शरणागताम्
न यास्यामि पुनर्गेहं यास्यामि काननान्तरम् । कृष्ण कृष्णेति कृष्णेति गायं गायं दिवानिशम्
न यास्याम्यथवाऽरण्यं यास्यामि कामसागरे । तत्र त्वत्कामनां कृत्वा त्यक्ष्यामि च कलेवरम्
यथाऽऽकाशो यथाऽऽत्मा च यथा चन्द्रो था रविः । तथा त्वं यासि मत्पार्श्वे निबद्धो वसनाञ्चले
अधुना यासि नैराश्यं कृत्वा मे दीनवत्सल । न युक्तं हि परित्यक्तुं दीनां मां शरणागताम्
यत्पादपद्मं धयायन्ते ब्रह्मविष्णुशिवादयः । त्वां मायया गोपवेषं कथं जानामि मत्सरी
कृतं यद्देव दुर्नीतमपराधसहस्रकम् । यदुक्तं पतिभावेन चाभिमानेन तत्क्षम
चूर्णोभूतश्च मद्गर्वो दूरीभूतो मनोरथः । विज्ञातुमात्मसौभाग्यं किमन्यत्कथयामि ते
ज्ञात्वा गर्गमुखच्छ्रुत्वा मोहिता तव मायया । त्वां च वक्तुं न शक्नोमि प्रेम्णा वा भक्तिपाशतः
यासि चेन्मां परित्यज्य सकलङ्को भविष्यसि । त्वत्पुत्रपौत्रा नश्यन्ति ब्रह्ममोपानलेन च
क्षणं युगशतं मन्ये त्वां विना प्राणवल्लभम् । कथं शताब्दं त्वां त्यक्त्वा बिभर्मि जीवनं प्रभी
इत्युक्त्वा राधिका मोपात्पपात धरणीतले । मूर्च्छं संप्राप सहसा जहार चेतनां मुने
कुष्णस्तां मूर्च्छितां दृष्ट्वा कृपया च कृपानिधिः । चेतनां कारयित्वा च वासयामास वक्षसि
बोधयामास विविधं योगैःशोकविखण्डनैः । तथाऽपि शोकं त्यक्तुं च न शशाक शुचिस्मिता
सामान्यवस्तुविश्लेषीनृणां शोकाय केवलम्। देहात्मनोश्च विच्छेदः क्व सुखाय प्रकल्पते
न ययौ तत्र दिवसे व्रजराजो व्रजं पति । क्रीडासरोवराभ्याशं प्रययौ राधाया सह
तत्र गत्वा पुनः क्रीडां चकार च तया सह । विजहौ क्रिहज्वालां रासे रासेश्वरी मुदा
राधा सा स्वामिना सार्धं पुष्पचन्दनचर्चिता । पुष्पचन्दनतल्पे च तस्थौ रहसि नारद
इति श्रीब्रह्मo महाo श्रीकृष्णजन्माखo उत्तo नारदनाo राधाशोक- विमोचनं नामाष्टषष्टितमोऽध्यायः
अथैकोनसप्ततितमोऽध्यायः नारद उवाच अतः परं किं रहस्यं राधाकेशवयोर्वद । निगूढतत्वामस्पष्टं तन्मे व्याख्यातुमर्हसि
नारायण उवाच शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् । गोपनीयं च वेदेषु पुराणेषु पुराविदाम्
पुनः सकामो भगवान्कृष्णः स्वेच्छामयो विभुः । रेमे स रमया सार्धं विदग्धश्च विदग्धया