तस्य विश्वे च प्रत्येकं ब्रह्मविष्णुशिवादयः । ब्रह्मविष्णुशिवा अंशाश्चान्ये चापि च मत्कलाः
मत्कलांशांशकलया सर्वे देवि चराचराः । वैकुण्ठे त्वं महालक्ष्मीरहं तत्र चतुर्भुजः
स च विश्वाद्बहिश्चोर्ध्वं यथा गोलोक एव च । सरस्वती त्वं सत्ये च सावित्री ब्रह्मणः प्रियाः
शिवलोके शिवा त्व्रं च मूलप्रकृतिरीश्वरी । विनाश्य दुर्गं दुर्गा च सर्वदुर्गतिनाशिनी
स एव दक्षकन्या च सा एव शैलकन्यका । कैलासे पार्वती तेन सौभाग्या शिववक्षसि
स्वांशेन त्वं सिन्धुकन्या क्षीरोदे विष्णुवक्षसि । अहं स्वाशेन सृष्टौ च ब्रह्मविष्णुमहेश्वराः
त्वं च लक्ष्मी शिवा धात्री सावित्री च पृथक्पृथक् । गोलोके च स्वयं राधा रासे रासेश्वरी सदा
वृन्दा दृन्दावने रम्ये विरजा विरजातटे । सा त्वं सुदामशापेन भारतं पुण्यमागता
पूतं कर्तुं भारतं च वृन्दारण्यं च सुन्दरि । त्वत्कलांशांशकलया विश्वेषु सर्वयोषितः
यायोषित्सा च भवती यः पुमान्सोऽहमेव च । अहं च कलया वह्निस्त्वं स्वाहा दाहिका प्रिया
त्वया सह समर्थोऽहं नालं दग्धुं च त्वां विना । अहं दीप्तिमतां सूर्यः कलया त्वं प्रभाकरी
संज्ञा त्वं च त्वया भामि त्वां विनाऽहं न दीप्तिमान् । अहं च कलया चन्द्रस्त्वं च शोभा च रोहिणी
मनोहरस्त्वया सार्धं त्वां न च सुन्दरः । अहमिन्द्रश्च कलया स्वर्गलक्ष्मीश्च त्वं शची
त्वया सार्धं देवराजो हतश्रीश्च त्वया विना । अहंधर्मश्च कलया त्वं च मूर्तिश्च धर्मिणी
नाहं शक्तो धर्मकृत्यो त्वां च धर्मक्रियां विना । अहं यज्ञश्च कलया त्वं च स्वांशेन दक्षिणा
त्वया सार्धं च फलदोऽप्यकमर्थस्त्वया विना । कलया पिदृलोकोऽहं स्वांशेन त्वं स्वधा सती
त्वयाऽलं कव्यदाने च सदा नालं त्वया विना । अहं पुमांस्त्वं प्रकृतिर्न स्रष्टाऽहं त्वया विना
त्वं च संवत्स्वरूपाऽहमीश्वरश्च त्वया सह । लक्ष्मीयुक्तस्त्वया लक्ष्मया निः श्रीकश्च त्वया दिना
यथा नालं कुलालश्च घटं कर्तुं मृदा विना । अहं शेषश्च कलया स्वांशेन त्वं वसुंधरा
त्वां सस्यरत्नाधारां च बिभर्मि मूर्ध्नि सुन्दरि । त्वं च कान्तिश्च शान्तिश्च भूतिर्मूर्तिमती सती
तुष्टिः पुष्टिः क्षमा लज्जा क्षुधा तृष्णा परा दया । निद्रा श्रद्धा च तन्द्रा च मूर्च्छा च संनतिः क्रिया
मूर्तिरूपा भक्तिरूपा देहिनां देहरूपिणी । ममाऽऽधारा सदा त्वं च तवाऽत्माऽहं परस्परम्
यथा त्वं च तथाऽहं च समौ प्रकृतिपूरुषौ । न हि सृष्टिर्भवेद्देवि द्वयोरेकतरं विना
इत्युक्त्वा परमात्मा च राधां प्राणाधिकां प्रियाम् । कृत्वा वक्षसि सुप्रीतो बोधयामास नारद
स च कीडानियुक्तश्च बभूव रत्नमन्दिरे । तथा च राधाया सार्धं कामुक्या सह कामुकः
अथाष्टषष्टितमोऽध्यायः नारायण उवाच कृत्वा क्रीडां समुत्थाय पुष्पतल्पात्पुरातनः । निद्रितां प्राणसदृशीं बोधयामास तत्क्षणम्
वस्त्राञ्चलेन संस्कृत्य कृत्वा तन्निर्मलं मुखम् । उवाच मधुरं शान्तं शान्तां च मधुसूदनः
श्रीकृष्ण उवाच अयि तिष्ठक्षणं राधे रासेश्वरि शुचिस्मिते । व्रज बृन्दावनं वाऽपि व्रजं व्रज व्रजेश्वरि
रासाधिष्ठातृतेवि त्वं रासं रासे कुरु क्षणम् । ग्रामे ग्रामे यथा सन्ति सर्वत्र ग्रामदेवताः
प्रियारलिनिवहैः सार्धं क्षणं चन्दनकाननम् । क्षणं वा चम्पकवनं घच्छ वा तिष्ठ सुन्दरि