जीवः श्लिष्टस्तथा काले मृतेषु जीविषु प्रिये । आवां च विद्यमानौ च सततं सर्वजन्तुषु
आधारश्चाहमाधेयं कार्य च कारणं विना । अये सर्वाणि द्रव्याणि नश्वराणि च सुन्दरि
आविर्भावाधिकाः कुत्र कुत्रचिन्न्यूनमेव च । ममांशाः केऽपि देवाश्च केचिद्देवाःकलास्तथा
केचित्कलाः कलांशांशास्तदंशांशाश्च केचन । मदंशा प्रकृतिः सूक्ष्मा साच मूर्त्याच पञ्चधा
सरस्वती च कमला दुर्गा त्वं चापि वेदसूः । सर्वे देवाः प्राकृतिका यावन्तो मूर्तिधारिणः
अहमात्मा नित्यदेही भक्तध्यानानुरोधतः । ये ये प्रकृतिका राधे ते नष्टाः प्राकृते लये
अहमेवाऽऽसमेवाग्रे पश्चादप्यहमेव च । यथाऽहं च तथा त्वं च यथा धावल्यदुग्धयोः
भेदः कदाऽपि न भवेन्निश्चितं च तथाऽऽवयोः । अहं महान्विराट् सुषटौ विश्वानि यस्य लोमसु
अंशस्त्वं तत्र महती स्वांशेन तस्य कामिनी । आहं क्षुद्रविराट् सृष्टौ विश्वं यन्नाभिपद्मतः
अयं विष्णोर्लोमकूपे वासो मे चांशतः सति । तस्य स्त्री त्वं च बृहती स्वाशने सुभगा तथा
तस्य विश्वे च प्रत्येकं ब्रह्मविष्णुशिवादयः । ब्रह्मविष्णुशिवा अंशाश्चान्ये चापि च मत्कलाः
मत्कलांशांशकलया सर्वे देवि चराचराः । वैकुण्ठे त्वं महालक्ष्मीरहं तत्र चतुर्भुजः
स च विश्वाद्बहिश्चोर्ध्वं यथा गोलोक एव च । सरस्वती त्वं सत्ये च सावित्री ब्रह्मणः प्रियाः
शिवलोके शिवा त्व्रं च मूलप्रकृतिरीश्वरी । विनाश्य दुर्गं दुर्गा च सर्वदुर्गतिनाशिनी
स एव दक्षकन्या च सा एव शैलकन्यका । कैलासे पार्वती तेन सौभाग्या शिववक्षसि
स्वांशेन त्वं सिन्धुकन्या क्षीरोदे विष्णुवक्षसि । अहं स्वाशेन सृष्टौ च ब्रह्मविष्णुमहेश्वराः
त्वं च लक्ष्मी शिवा धात्री सावित्री च पृथक्पृथक् । गोलोके च स्वयं राधा रासे रासेश्वरी सदा
वृन्दा दृन्दावने रम्ये विरजा विरजातटे । सा त्वं सुदामशापेन भारतं पुण्यमागता
पूतं कर्तुं भारतं च वृन्दारण्यं च सुन्दरि । त्वत्कलांशांशकलया विश्वेषु सर्वयोषितः
यायोषित्सा च भवती यः पुमान्सोऽहमेव च । अहं च कलया वह्निस्त्वं स्वाहा दाहिका प्रिया
त्वया सह समर्थोऽहं नालं दग्धुं च त्वां विना । अहं दीप्तिमतां सूर्यः कलया त्वं प्रभाकरी
संज्ञा त्वं च त्वया भामि त्वां विनाऽहं न दीप्तिमान् । अहं च कलया चन्द्रस्त्वं च शोभा च रोहिणी
मनोहरस्त्वया सार्धं त्वां न च सुन्दरः । अहमिन्द्रश्च कलया स्वर्गलक्ष्मीश्च त्वं शची
त्वया सार्धं देवराजो हतश्रीश्च त्वया विना । अहंधर्मश्च कलया त्वं च मूर्तिश्च धर्मिणी
नाहं शक्तो धर्मकृत्यो त्वां च धर्मक्रियां विना । अहं यज्ञश्च कलया त्वं च स्वांशेन दक्षिणा
त्वया सार्धं च फलदोऽप्यकमर्थस्त्वया विना । कलया पिदृलोकोऽहं स्वांशेन त्वं स्वधा सती
त्वयाऽलं कव्यदाने च सदा नालं त्वया विना । अहं पुमांस्त्वं प्रकृतिर्न स्रष्टाऽहं त्वया विना
त्वं च संवत्स्वरूपाऽहमीश्वरश्च त्वया सह । लक्ष्मीयुक्तस्त्वया लक्ष्मया निः श्रीकश्च त्वया दिना
यथा नालं कुलालश्च घटं कर्तुं मृदा विना । अहं शेषश्च कलया स्वांशेन त्वं वसुंधरा
त्वां सस्यरत्नाधारां च बिभर्मि मूर्ध्नि सुन्दरि । त्वं च कान्तिश्च शान्तिश्च भूतिर्मूर्तिमती सती