व्रजराज त्वया सार्ध राजन्ते राजराजयः । यथा चन्द्रेण नभसि ताराराजिर्विराजते
त्वया शोभा यशोदाया नन्दस्य नन्दनन्दन । यथा शाखाफलस्कन्धैस्तरुराजिर्विराजते
त्वया कार्ध गोकुलेश सोभा गोकुलवासिनाम् । यथा सर्वा लोकराजी राजेन्द्रेण विराजते
रामस्यापि च रासेश त्वया शोभा मनोहरा । राजते देवराजेन यथा स्वर्गेऽमरावती
वृन्दावनस्य वृक्षाणां त्वं च शोभा पतिर्गतिः । अन्योषां च वनानां च बलवान्केसरी यथा
त्वया विना यशोदा य निमग्ना शोकसागरे । अप्राप्य वत्सं मुरभिः क्रोशन्ती व्याकुला यथा
आन्दोलयन्ति नन्दस्य प्राणा दग्धं च मानसम् । त्वया विना तप्तपात्रे यथा धान्यसमूहकः
इत्युक्त्वा परमप्रेम्णा सा पतन्ती हरेः पदे । पुनराध्यात्मिकेनैव बोधयामास तां विभुः
आध्यात्मिको महायोगी मोहसंछेदकारणम् । यथा पर्शुश्च वृक्षाणां तीक्ष्णधारश्च नारद
नारद उवाच आध्यात्मिकं महायोगं वद वेदविदां वर । शोकच्छेदं च लोकानां श्रोतुं कौतुहलं मम
नारायण उवाच आध्यात्मिको महायोगो न ज्ञातो योगिनामवि । स च नानाप्रकारश्च सर्वं वेत्ति हरिः स्वयम्
किंचिदाध्यात्मिकं चैव गोनोके राधिकेश्वरः । सुप्रीतः कथायामास त्रिपुरारिं यथा मुने
सहस्रेन्द्रनिपातान्तं तपः कुर्वन्तमीश्वरम् । श्रेष्ठं ज्येष्ठं वैष्णवानां वरिष्ठं च तपस्विनाम्
पुष्करे दुष्करं तप्त्वा पाद्मे पाद्मं च पद्मजः । दृष्ट्वा तं सादरं कृष्ण उवाच किंचिदेवतम्
शतेन्द्रपातपर्यन्तं कठोरेण कृशोदरम् । निश्चेष्टमस्थिसारं च कृपया च कृपानिधिः
सिंहक्षेत्रे पुरा धर्मं मत्तातं धर्मिणां वरम् । चतुर्दशेन्द्रावच्छिन्नं तपस्तप्त्वा कृशोदरम्
पपाठाऽऽयात्मिकं किंचित्कृपया च कृपानिधिः । किचिच्छतेन्द्रावच्छिन्नं मां तपन्तमुवाच सः
किंचित्सनत्कुमारं च तपन्तं सुचिरं परम् । सुतपन्तमनन्तं च किंचिच्चोवाच नारद
चिरं तपन्तं कपिलं हिमशैले तपस्विनम् । पुष्करे भास्करे किंचित्तपन्तं दुष्करं तपः
उवाच किंचित्प्रह्लादं किंचिद्दुर्वाससं भृगुम् । एवं निगूढं भक्तं च कृप्या भक्तवत्सलः
क्रीडाकनोवरे रम्ये यदुवाच कृपानिधिः । शोकार्तां राधिकां तच्च कथायामि निशामय
विरसं रसिकां दृष्ट्वा वासयित्वा च वक्षसि । उवाचाऽऽध्यात्मिकं किंचिद्योगिनीं योगिनां गुरुः
श्रीकृष्ण उवाच जातिस्मरे स्मराऽऽत्मानं कथं विस्मरसि प्रिये । सर्वं गोलोकवृत्तान्तं सुदाम्नः शापमेव च
शापात्किंचिद्दिनं दीने त्वद्विच्छेदो मया सह । भविष्यति महाभागे मेलनं पुनरावयोः
पुनरेव गमिष्यामि गोलोकं तं निजालयम् । गत्वा गोपाङ्गनाभिश्च गोपैर्गोलोकवासिभिः
अधुनाऽऽध्यात्मिकं किंचित्तवां वदामि निशामय । शोकध्नं हर्षदं सारं सुखदं मानसस्य च
अहं सर्वान्तरात्मा च निर्लिप्तः सर्वकर्मसु । विद्यमानश्च सर्वेषु सर्वत्रादृष्ट एव च
वायुश्चरति सर्वत्र यथैव सर्ववस्तुषु । न च लिप्तस्तथैवाहं साक्षी च सर्वकर्मणाम्
जीवो मत्प्रतिबिम्बश्च सर्वत्र सर्वजीविषु । भोक्ता शुभाशुभानां च कर्ता च कर्मणां सदा
यथा चलघटेष्वेव मण्डलं चन्द्रमुर्ययोः । भग्नेषु तेषु संश्लिष्टस्तयोरेव तथा मयि