श्रुत्वा स्वप्नं जगन्नाथो देवीं कृत्वा स्ववक्षमि । आध्यात्मिकेन योगेन वोधयामास तत्क्षणम्
त्तयाच शोकं स देवी ज्ञानं संप्राप्य निर्मलम् । शान्तं च भगवंतं च कृत्वा कान्तं स्ववक्षसि
इतिo श्रीब्रह्मo महाo श्रीकृष्णजान्मखo उत्तo नारदनाo राधाशोका- पनोदने षट्षष्टितमोऽध्यायः
अथा सप्तषष्टितमोऽध्यायः नारायण उवाच विरहव्याकुलां दृष्ट्वा मामिनीं काममोहनः । कृत्वा वक्षसि तां कृष्णो ययौ क्रीडासरोवरम्
राजराजेश्वरी राधा कृष्णवक्षसि राजते । सौदामिनीव जलदे नदीने गगने मुने
रेमे स रमया सार्धं कृपया च कृपानिधिः । द्वयोर्द्वयोर्यथा स्वर्णंमण्योर्मारकतो मणिः
रत्ननिर्माणपर्यङ्के रत्नेन्द्रसारनिर्मिते । नत्नप्रदीपे ज्वलति रत्नभूषणभूषितः
रत्नभूषाभूषितया रासरत्नश्च कौतुकात् । रसरत्नाकरे रम्ये निमग्नो रसिकेश्वरः
रासे रासेश्वरी राधा रामेश्वरमुवाच सा । सुरतौ विरतौ सत्यां विरते न मनोरथे
राधिकोवाच प्रफुल्लाऽहं त्वया नाथ मृता म्लाना च त्वां विना । यथा महौषधिगणः प्रभाते भाति भास्करे
नक्तं दीपशिखेवाहं त्वया सार्धं त्वया विना । दिने दिने यथा क्षीणा कृष्णपक्षे विधोः कला
तव वक्षसि मे दीप्तिः पूर्णंचन्द्रप्रभासमा । सद्यो मृता त्वया त्यक्ता कुह्वां चन्द्रकला यथा
ज्वलदग्निशिखेवाहं घृताहुत्या त्वया सह । त्वया विनाऽहं निर्वाणा शिशिरे पद्मिनी यथा
चिन्ताज्वरजराग्रस्ता मत्तस्त्वयि गतेऽप्यहम् । अस्तंगते रवौ चन्द्रे ध्वान्दग्रस्ता धरा यथा
भ्रष्टो वेषस्त्वां विना मे रुपयौवनचेतनम् । तारावली परिभ्रष्टा सूर्यसूतोदये यथा
त्वमेवाऽऽत्मा च सर्वेषां मम नाथो विशेषतः । तनुर्यथाऽऽत्मना त्यक्ता तथाऽहं च त्वया विना
पञ्चप्राणात्मकस्त्वं मे मृताऽहं च त्वया विना । दृष्टेश्च गोलकौ जद्वद्दृष्टिः पुत्तलिकां विना
स्थलं यथा चित्रयुक्तं त्वया सार्धमहं तथा । असंस्कृता त्वया हीना तृणाच्छन्ना यथा मही
त्वया सार्धमहं कृष्ण चित्रयुक्तेव मृन्मयी । त्वां विना जलधौताऽहं विरूपा मृन्मयीव च
गोपाङ्गनानां शोभा च त्वया रासेश्वरेण च । हारे स्वर्णविकारे च श्वेतेन मणिना सह
व्रजराज त्वया सार्ध राजन्ते राजराजयः । यथा चन्द्रेण नभसि ताराराजिर्विराजते
त्वया शोभा यशोदाया नन्दस्य नन्दनन्दन । यथा शाखाफलस्कन्धैस्तरुराजिर्विराजते
त्वया कार्ध गोकुलेश सोभा गोकुलवासिनाम् । यथा सर्वा लोकराजी राजेन्द्रेण विराजते
रामस्यापि च रासेश त्वया शोभा मनोहरा । राजते देवराजेन यथा स्वर्गेऽमरावती
वृन्दावनस्य वृक्षाणां त्वं च शोभा पतिर्गतिः । अन्योषां च वनानां च बलवान्केसरी यथा
त्वया विना यशोदा य निमग्ना शोकसागरे । अप्राप्य वत्सं मुरभिः क्रोशन्ती व्याकुला यथा
आन्दोलयन्ति नन्दस्य प्राणा दग्धं च मानसम् । त्वया विना तप्तपात्रे यथा धान्यसमूहकः
इत्युक्त्वा परमप्रेम्णा सा पतन्ती हरेः पदे । पुनराध्यात्मिकेनैव बोधयामास तां विभुः
आध्यात्मिको महायोगी मोहसंछेदकारणम् । यथा पर्शुश्च वृक्षाणां तीक्ष्णधारश्च नारद
नारद उवाच आध्यात्मिकं महायोगं वद वेदविदां वर । शोकच्छेदं च लोकानां श्रोतुं कौतुहलं मम