इत्युक्त्वा का महाभागा प्रियं कृत्वा स्ववक्षसि । दुःस्वप्नं कथायामास हृदयेन विदूयता
राधिकोवाच रत्नसिंहासनेऽहं च रत्नच्छत्रं च बिभ्रती । तदातपत्रं जग्राह रुषटो विप्रश्च मे प्रभो
सागरे कज्जलाकारे महाघोरे च दुस्तरे । गभीरे प्रेरयामास मामेव दुर्बलां स च
तत्र स्रोतसि शोकार्ता भ्रमामि च मुहुर्मुहुः । महोर्मीणां च वेगेन व्याकुला नक्रसंकुले
त्राहि त्राहीति हे नाथ त्वां वदामि पुनः पुनः । त्वां न दृष्ट्वा महाभीता करोमि प्रार्थनां सुरम्
कृष्ण तत्र निमज्जन्ती पश्यामि चन्द्रमण़्डलम् । निपतन्तं च गगनाच्छतखण्डं च भूतले
क्षणान्तरे च पश्यामि गगनात्सूर्यंमण्डलम् । बभूव च चतुःखण्डं निपत्य धरणीतले
एककाले च गगने मण्डलं चन्द्रसूर्ययोः । अतीव कज्जलाकारं सर्वं ग्रस्तं च राहुणा
क्षणान्तरे च पश्यामि ब्रह्मणो दीप्तिमानिति । सत्क्रोडस्थं सुधाकुम्भं बभञ्ज च रुषेति च
क्षणान्तरे च पश्यामि महारुष्टं च ब्राह्मणम् । गृहीत्वा च व्रजन्तं च चक्षुषोः पुरुषं मम
क्रीडाकमलदण्डं च हस्ताद्ध्वस्तं मम प्रभो । सहसा खण्डशण्डं च बभूव सह हेतुना
हस्ताद्ष्वस्तश्च सहसा सद्रत्नसारदर्पणः । निर्मलः कज्जलाकारः खण्डकण्डो बभूव ह
हारो मे रत्नमाराणां छिन्नो भूत्वा च वक्षसः । अतीव मरिनं पद्मं पपात धरणीतले
सौधपुत्तलिकाः सर्वा नृत्यन्ति च हसन्ति च । आस्फोटयन्ति गायन्ति रुदन्ति य क्षणं क्षणम्
कृष्णवर्णं बृहच्चक्रं खे भ्रमन्तं मुहुर्मुहुः । निपतन्तं चोत्पतन्तं पश्यामि च भयंकरम्
प्राणाधिदेवः पुरुषो निःसृत्याम्यन्तरान्मम । राधे विदायं देहीति ततो यामीत्युवाच ह
कृष्णवर्णा च प्रतिमा मामाश्लिष्यति चुम्बति । कृष्णवस्त्रपरीधाना चेति पश्यामि सांप्रतम्
इतीदं विपरीतं च दृष्टावा च प्राणावल्लभ । नृत्यन्ति तक्षिणाङ्गानि प्राणा आन्दोलयन्ति मे
रुदन्ति शोकात्कर्षन्ति समुद्विग्नं च मानसम् । किमिदं किमिदं नाथ वद वेदविदां वर
इत्युक्त्वा राधिका देवी शुष्ककण्ठोष्ठतालुका । पपात तत्पदाम्भोजे भीता स शोकविङ्वला
श्रुत्वा स्वप्नं जगन्नाथो देवीं कृत्वा स्ववक्षमि । आध्यात्मिकेन योगेन वोधयामास तत्क्षणम्
त्तयाच शोकं स देवी ज्ञानं संप्राप्य निर्मलम् । शान्तं च भगवंतं च कृत्वा कान्तं स्ववक्षसि
इतिo श्रीब्रह्मo महाo श्रीकृष्णजान्मखo उत्तo नारदनाo राधाशोका- पनोदने षट्षष्टितमोऽध्यायः
अथा सप्तषष्टितमोऽध्यायः नारायण उवाच विरहव्याकुलां दृष्ट्वा मामिनीं काममोहनः । कृत्वा वक्षसि तां कृष्णो ययौ क्रीडासरोवरम्
राजराजेश्वरी राधा कृष्णवक्षसि राजते । सौदामिनीव जलदे नदीने गगने मुने
रेमे स रमया सार्धं कृपया च कृपानिधिः । द्वयोर्द्वयोर्यथा स्वर्णंमण्योर्मारकतो मणिः
रत्ननिर्माणपर्यङ्के रत्नेन्द्रसारनिर्मिते । नत्नप्रदीपे ज्वलति रत्नभूषणभूषितः
रत्नभूषाभूषितया रासरत्नश्च कौतुकात् । रसरत्नाकरे रम्ये निमग्नो रसिकेश्वरः
रासे रासेश्वरी राधा रामेश्वरमुवाच सा । सुरतौ विरतौ सत्यां विरते न मनोरथे
राधिकोवाच प्रफुल्लाऽहं त्वया नाथ मृता म्लाना च त्वां विना । यथा महौषधिगणः प्रभाते भाति भास्करे