दासीनियुक्ता यद्दास्यो महालक्षमीश्च लक्षीता । गङ्मा यस्य पदाम्भोजान्निःसृता सत्तव रूमिणी
जन्ममृत्युजराव्याधिहरा त्रिभुवनात्परा । दर्शनस्पर्शनाभ्यां च नृणां पातकनाशिनी
ध्यायते यत्पदाम्भोजं दुर्गा दुर्गविनाशिनी । त्रेलोक्यजननी देवी मुलप्रकृतिरीश्वरी
लोम्नां कूपेषु विश्वानि महाविष्णोश्च यस्य च । असंख्यानि विचित्राणि स्थूलात्स्थूलतरस्य च
स च यत्षोडशांशश्च यस्य सर्वेश्वरस्य च । तं द्रष्टुं यामि हे बन्धो मायामानुषरूपिणम्
सर्व सर्वान्तरात्मानं सर्वज्ञं प्रकृतेः परम् । ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम्
निर्गुणं च निरीहं च निरानन्दं निराश्रयम् । परमं परमानन्दं सानन्दं नन्दनन्दनम्
स्वेच्छामयं सर्वपरं सर्वबीजं सनातनम् । वदन्ति योगिनः शश्वद्ध्यायन्तेऽहर्निशं शिशुम्
मन्वन्तरसहस्रं च निराहारः कृशोदरः । पद्मे पाद्मस्तपस्तेपे पुरा पाद्मं तु यत्कृते
पुनः कुरु तपस्यां च तदा द्रक्ष्यसि मामिति । सकृच्छब्दं च शुश्राव न ददर्श तथाऽपि तम्
तावत्कालं पुनस्तप्त्वा वरं प्राप ददर्श तम् । ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव
पुरा शंभुस्तपस्तेपे यावद्वै ब्रह्मणो वयः । ज्योतिर्मण्डलमध्ये च गोलोके तं ददर्श सः
सर्वतत्तवं सर्वसिद्धं ममतत्वं परं वरम् । संप्राप तत्पदाम्भोजे भक्तिं च निर्मलां पराम्
चकाराऽत्मसमं तं च यो भक्तो(क्तं)भक्तवत्सलः । ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव
सहस्रशक्रपातान्तं निराहारः कृशोदरः । यस्यानन्तस्तपस्तेपे भक्त्या च परमात्मनः
तदा चाऽऽत्मसमं ज्ञानंददौ तस्मै य ईश्वाः । ईदृशं परमेशं च द्रक्ष्याo
सहस्रशक्रपातान्तं धर्मस्तेपे च यत्तपः । तदा बभूव साक्षी स धर्मिणां सर्वकर्मिणाम्
शास्ता च फलदाता च यत्प्रसादान्नृणामिह । सर्वेशमीदृशमहो द्रक्ष्याo
अष्टाविंशतिरिन्द्राणां पतने यद्दिवानिशम् । एवं क्रमेण मासाब्दैः शताब्दं ब्रह्मणो वयः
अहो यस्य निमेषेण ब्रह्मणः पतनं भवेत् । ईदृशं परमात्मानं द्रक्ष्याo
नास्ति भूरजसा संख्या यथैव ब्रह्मणां तथा । तथैव बन्धो विश्वानां तदाधारो महाविराट्
विशवे विश्वे च प्रत्येकं ब्रह्म विष्णुशिवादयः । मुनयो मनवः मिद्धा मानवाद्याश्चराचराः
यत्षोडशांशः स विराट् सृष्टो नष्टश्च लीलया । ईदृशं सर्वशास्तारं द्रक्ष्याo
इत्योवमुक्त्वाऽक्रूरश्च पुलकाञ्चितविग्रहः । मूर्च्छां प्राप साश्रुनेत्रोदध्यो तच्चरणाम्बुजम्
बभूव भक्तिपूर्णश्च स्मारं स्मारं पदाम्बुजम् । कृत्वा प्रदक्षिणं वाऽपि कृष्णस्य परमात्मनः
उद्धवश्च तमाश्लिष्य प्रशशंक पुनः पुनः । स च शीघ्रं ययौ गेहमकूरोऽपि स्वमन्दिरम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo अक्रूरहर्षोत्कर्षकथनं नाम पञ्चषष्टि,मोऽध्यायः
अथ षटुषष्टितमोऽध्यायः नारायण उवाच अथ रासेश्वरीयुक्तो रासे रासेश्वरः स्वयम् । स च रेमे तया सार्धंमतीव रमणोत्सुकः
सुखसंभोगमात्रेण ययौ निद्रां च राधिका । दृष्ट्वा स्वप्नं समुत्वाय दीनोवाच प्रियं दिने
राधिकोवाच अहो स्वामिन्निहाऽऽगच्छ त्वां करोमि स्ववक्षसि । परिणामे विधाता मे न जाने किं करिष्यति