कोटिजन्मार्जितं पुण्यं मम स्वयमुपस्थितम् । बभूव मे समुत्पन्नं यद्यत्कर्म शुभाशुभम्
चिच्छेद बन्धनिगडं मम बद्धस्य कर्मणा । कारागाराश्च संसारान्मुक्तो यामि हरेःपदम्
सुहृदर्थो कृतोऽहं च कंसेन विदुषा रुषा । वरेण तुल्यो देवस्य क्रोधो मम बभूव ह
व्रजराज समाहर्तुं व्रजं यास्यामि सांप्रतम् । द्रक्ष्यामि परमं पूज्यं भुक्तिमुक्तिप्रदायिनम्
नवीनजलदश्यामं नीलेन्दीवरनोचनम् । पीतवस्त्रसमायुक्तकटिदेशविराजितम्
धूलिधूसरिताङ्गं च किंवा चन्दनचर्चितम् । अथाव नवनीताक्तमङ्गं द्रक्ष्यामि सस्मितम्
किंवा विनोदमुरलीं वादयन्तं मनोहरम् । किंवा गवां समूहं च चारजन्तमितस्ततः
किंवा वसन्तं गच्छन्तं शयानं वा सुनिश्चितम् । निद्रेशं कीदृशं चाद्य सुदृष्ट्वा च शुभे क्षणो
यत्पादपद्मं ध्यायन्ते ब्रह्मविष्णुशिवादयः । न हि जानाति यस्यान्तमनन्तोऽनन्तविग्रहः
यत्प्रभावं न जानन्ति देवाः सन्तश्च संततम् । स्य स्तोत्रे जडीभूता भीता देवी सरस्वती
दासीनियुक्ता यद्दास्यो महालक्षमीश्च लक्षीता । गङ्मा यस्य पदाम्भोजान्निःसृता सत्तव रूमिणी
जन्ममृत्युजराव्याधिहरा त्रिभुवनात्परा । दर्शनस्पर्शनाभ्यां च नृणां पातकनाशिनी
ध्यायते यत्पदाम्भोजं दुर्गा दुर्गविनाशिनी । त्रेलोक्यजननी देवी मुलप्रकृतिरीश्वरी
लोम्नां कूपेषु विश्वानि महाविष्णोश्च यस्य च । असंख्यानि विचित्राणि स्थूलात्स्थूलतरस्य च
स च यत्षोडशांशश्च यस्य सर्वेश्वरस्य च । तं द्रष्टुं यामि हे बन्धो मायामानुषरूपिणम्
सर्व सर्वान्तरात्मानं सर्वज्ञं प्रकृतेः परम् । ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम्
निर्गुणं च निरीहं च निरानन्दं निराश्रयम् । परमं परमानन्दं सानन्दं नन्दनन्दनम्
स्वेच्छामयं सर्वपरं सर्वबीजं सनातनम् । वदन्ति योगिनः शश्वद्ध्यायन्तेऽहर्निशं शिशुम्
मन्वन्तरसहस्रं च निराहारः कृशोदरः । पद्मे पाद्मस्तपस्तेपे पुरा पाद्मं तु यत्कृते
पुनः कुरु तपस्यां च तदा द्रक्ष्यसि मामिति । सकृच्छब्दं च शुश्राव न ददर्श तथाऽपि तम्
तावत्कालं पुनस्तप्त्वा वरं प्राप ददर्श तम् । ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव
पुरा शंभुस्तपस्तेपे यावद्वै ब्रह्मणो वयः । ज्योतिर्मण्डलमध्ये च गोलोके तं ददर्श सः
सर्वतत्तवं सर्वसिद्धं ममतत्वं परं वरम् । संप्राप तत्पदाम्भोजे भक्तिं च निर्मलां पराम्
चकाराऽत्मसमं तं च यो भक्तो(क्तं)भक्तवत्सलः । ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव
सहस्रशक्रपातान्तं निराहारः कृशोदरः । यस्यानन्तस्तपस्तेपे भक्त्या च परमात्मनः
तदा चाऽऽत्मसमं ज्ञानंददौ तस्मै य ईश्वाः । ईदृशं परमेशं च द्रक्ष्याo
सहस्रशक्रपातान्तं धर्मस्तेपे च यत्तपः । तदा बभूव साक्षी स धर्मिणां सर्वकर्मिणाम्
शास्ता च फलदाता च यत्प्रसादान्नृणामिह । सर्वेशमीदृशमहो द्रक्ष्याo
अष्टाविंशतिरिन्द्राणां पतने यद्दिवानिशम् । एवं क्रमेण मासाब्दैः शताब्दं ब्रह्मणो वयः
अहो यस्य निमेषेण ब्रह्मणः पतनं भवेत् । ईदृशं परमात्मानं द्रक्ष्याo