सिद्धैर्नियुक्तं शतकोटिलक्षैकैस्त्रिकोटिलक्षैश्च युतं स्वपार्षदैः
सुरद्रुमैर्वेष्टितमेव सन्ततं मन्दारवृक्षप्रवरैः सुपुष्पितैः
दृष्ट्वा मुनिर्विस्मयमाप मानसे किं नात्र चित्रं सुरयोगिनां गुरौ
दूरे सभामण्डलमध्यगं शिवं ददर्श शान्तं शिवदं मनोहरम्
प्रतप्तहेमाभजटाधरं विभुं दिगम्बरं शुभ्रमनन्तमक्षरम् 1.25.
सुनीलकण्ठं भुजगेन्द्रमण्डितं योगीन्द्रसिद्धेन्द्र मुनीन्द्रवन्दितम्
प्रसन्नहास्यास्यमनोहरं वरं विश्वाश्रयाणां शिवदं वरप्रदम्
गत्वा समीपं मुनिरेष शूलिनं ननाम मूर्ध्ना पुलकाङ्कविग्रहः
दृष्ट्वा मुनीन्द्रप्रवरं च सस्मितं विधेः सुतं वेदविदां वरिष्ठम्
ददौ च तस्मै मुनये स संभ्रमादालिङ्गनं चाशिषमासनादिकम्
सद्रत्नसिंहासनसुन्दरे परश्चोवास शम्भुर्वरपार्षदैः सह
गन्धर्वराजेन कृतेन नारदः स्तोत्रेण रम्येण शुभप्रदेन च
चकार तत्रैव निवेदनं शिवे मनोऽभिलाषं निजकामपूरके
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे कैलासं प्रति नारदागमनं नाम पञ्चविंशतितमोऽध्यायः
सौतिरुवाच हरं ययाचे देवर्षिर्ध्यानं च ज्ञानमेव च
स्तोत्रं च कवचं मन्त्रं ध्यानं पूजाविधिं तथा
सर्वं प्राप्य मुनिश्रेष्ठः परिपूर्णमनोरथः
नारद उवाच स्वधर्मपालनं नित्यं यतो भवति नित्यशः
श्रीमहेश्वर उवाच सूक्ष्मे सहस्रपत्रे स्वे निर्मले ग्लानिवर्जिते
रात्रिवासं परित्यज्य गुरुं तत्रैव चिन्तयेत्
प्रसन्नवदनं शान्तं परितुष्टं निरन्तरम्
ध्यात्वैवं गुरुमाराध्य हृत्पद्मे निर्मले सिते
यस्य देवस्य यद्ध्यानं यद्रूपं तद्विचिन्तयेत्
आदौ ध्यात्वा गुरुं नत्वा संपूज्य विधिपूर्वकम् 1.26.
गुरुप्रदर्शितो देवो मन्त्रपूजाविधिर्जपः
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः
गुरुर्वायुश्च वरुणो गुरुर्माता पिता सुहृत्
अभीष्टदेवे रुष्टे च समर्थो रक्षणे गुरुः
यस्य तुष्टो गुरुः शश्वज्जयस्तस्य पदे पदे
न संपूज्य गुरुं देवं यो मूढः पूजयेद् भ्रमात्