सत्यकस्य वचः श्रुत्वा वसन्तं तत्र संसदि । स्वर्णसिंहासनस्थं च वसुदेवमुवाच सः
कंम उवाच तत्तवज्ञो नीतिशास्त्राणां त्वमुपायविशारदः । व्रज नन्दव्रजं बन्धो वसुदेव मुतालयम्
वृषभानं च नन्दं च बलं च नन्दनन्दनम् । शीघ्रमानय यज्ञेऽत्र सर्वं गोकुलवासिनम्
गृहीत्वा पत्रिकां दूता गच्छन्तु च चतुर्दिश्म् । नृपान्मुनिगणान्सर्वान्कर्तुं विज्ञापनं मुदा
नृपस्य वचनं श्रुत्वा शुष्ककण्ठोष्ठतालुकः । उवाच वचनं ब्रह्मन् हृदयेन विदूषता
वसुदेव उवाच नियुक्तमत्र राजेन्द्र गमनं मम सांप्रतम् । विज्ञापितुं नन्दव्रजं नन्दं वा नन्दनन्दनम्
यद्यायातो नन्दपुत्रो यागो ते च महोत्सवे । अवश्यं तद्विरोधश्च भविष्यति त्वया सह
तमहं च समानीय कारयिष्यामि संयुतम् । इति मे न हि भद्रं च विध्नस्तस्य तवापि च
पित्राऽऽनोतो मृतः कृष्ण इति सर्वो वदिष्यति । वसुदेवः सुतद्वारा जघान नृपमेव च
द्वयोरेकतरस्यापि सद्यो मृत्युर्भविष्यति । पतिष्यन्ति च शूराश्च नास्ति युद्धं निरामिषम्
वसुदेववचः श्रुत्वा रक्तपङ्कचलोचनः । खड्गं गृहीत्वा तं हन्तुं प्रययौ नृपतीश्वरः
हाहेति कृत्वा पुत्रं च वारयामास तत्क्षणम् । उग्रसेनो महाराजमतीव बलवान्मुने
स्वपीठाद्वसुदेवश्च कोपाविष्टो गृहं ययौ । अक्रूरं प्रेरयामास गन्तुं नन्दव्रजं नृपः
दूतान्प्रस्थापयामास शीघ्रं प्रतिदिशं तथा । आययुर्मुनयः सर्वे नृपश्च सपरिच्छदा
दिक्पालाश्च सुराः सर्वे ब्राह्मणाश्च तपस्विनः । सनकश्च सनन्दश्च वोढुः पञ्चशिखस्तथा
सनत्कुमारो भगवान्प्रज्वलन्ब्रह्मतेजसा । कपिलश्चासुरिः पैलः सुमन्तुश्च सनातनः
पुलहश्च पुलस्त्यश्च भृसुश्च क्रतुरङ्गिराः । मरीचिः कश्यपश्चैव दक्षोऽत्रिश्च्यवनस्तथा
भरद्वाजश्च व्यासश्च गौतमश्च पराशरः । प्रचेताश्च वसिष्ठश्च संवर्तश्च बृहस्पतिः
कात्यायनो याज्ञवल्क्योऽप्युत्तङ्कः सौभरिस्तथा । पर्वतो देवलश्चैव जैगीषव्यश्च जैमिनिः
विश्वामित्रश्च सुतपाः पिप्पलः शाकटायनः । जाबालिर्जाङ्गलिश्चैव पिशलिश्च शिलालिकः
आस्तौकश्च जगत्कारुस्तथा कल्याणमित्रकः । दुर्वासा वामदेवश्च ऋष्यश्रृङ्गो विभाण्डकः
पथिः कविः कणादश्च गौशिकः पाणिनिस्तथा । कौत्सोऽद्यमर्षणश्चैव वाल्मीकिर्लोमहर्षणः
मार्कणडेयो मृकण्डुश्च पर्शुरामश्च सांकृतिः । अगस्त्यश्च तथा वान्तस्तथाऽन्ये मुनयो मुने
सशिष्याश्च सपुत्राश्च ब्राह्मणाश्च तपस्विनः । जरासंधो दन्तवक्रो दाम्भिको द्रविडाधिपः
शिशुपालो भीष्मकश्च भगदत्तश्च मुद्गलः । धार्तराष्ट्रो धूमकेशो धूम्रकेतुश्च शम्बरः
शल्यः सत्राजितः शङ्कुर्नृपाश्चान्ये महाबलाः । भीष्मो द्रोणः कृपाचार्यो ह्यश्वत्थामा महाबलाः
भूरिश्रवाश्च शाल्वश्च कैकेयः कौशलस्तथा । सर्वान्संभाषयामास महाराजो यथोचितम् सत्यको यज्ञदिवसे चकार च शुभक्षणम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo कंसयज्ञ- कथानं नाम चतुःषष्टितमोध्यायः
अथ पञ्चषष्टितमोऽध्यायः नारायम उवाच कंसस्य वचनं श्रुत्वा सोऽक्रूरो धर्मिणां वरः । उवाच चौद्धवं शान्तं शान्तः प्रहृष्टमानसः
अक्रूर उवाच सुप्रभाताऽद्य रजनी बभूव मे शुभं दिनम् । तुष्टाश्च गुरवो विब्रा देवा मामिति निश्चितम्