ब्रह्माणं दर्शयामास ब्रह्मरूपं चराचरम् । निवहं बारवत्सानां चकार कृत्रिमं मुदा
तमेव बलिनं हन्तुं मन्त्रणां कुरु सत्यक । मम शत्रुर्विना तेन नास्तिह धरणीतले
नहि स्वर्गे न पाताले त्रिषु लोकेषु निश्चितम् । सन्ति सन्तश्च राजानः सर्वत्र मम बान्धवाः
महातपस्वी ब्रह्मा च तपस्वीं शंकरः स्वयाम् । विष्णुः सर्वत्र सर्वात्मा समदर्शो सनातनः
नन्दपुत्रं निहत्याहं त्रिषु लोकेषु पूजितः । मार्वभौमो भविष्यामि सप्तद्वीपेश्वरो महान्
स्वर्गे निहत्य शक्रं च दुर्बलं दैत्यनिर्जितम् । भविष्यामि महेन्द्रश्च तत्र निर्जित्य भास्करम्
यक्ष्मग्रस्तं च चन्द्रं च ममैव पूर्वपूरुषम् । वायुं कुबेरं वरुणं यमं जेष्यामि निश्चितम्
गच्छ नन्दव्रजं शीघ्रं नन्दं च नन्दनन्दनम् । तद्भ्रातरं च बलिनं बलमानय संप्रतम्
कंसस्य वचनं श्रुत्वा तमुवाच स सत्यकः । हितं सत्यं नीतिसारं परं सामयिकं तथा
सत्यक उवाच अक्रूरमुद्धवं वाऽपि वसुदेवमथापि वा । प्रस्थापय महाभाग नन्दव्रजमभीप्सितम्
सत्यकस्य वचः श्रुत्वा वसन्तं तत्र संसदि । स्वर्णसिंहासनस्थं च वसुदेवमुवाच सः
कंम उवाच तत्तवज्ञो नीतिशास्त्राणां त्वमुपायविशारदः । व्रज नन्दव्रजं बन्धो वसुदेव मुतालयम्
वृषभानं च नन्दं च बलं च नन्दनन्दनम् । शीघ्रमानय यज्ञेऽत्र सर्वं गोकुलवासिनम्
गृहीत्वा पत्रिकां दूता गच्छन्तु च चतुर्दिश्म् । नृपान्मुनिगणान्सर्वान्कर्तुं विज्ञापनं मुदा
नृपस्य वचनं श्रुत्वा शुष्ककण्ठोष्ठतालुकः । उवाच वचनं ब्रह्मन् हृदयेन विदूषता
वसुदेव उवाच नियुक्तमत्र राजेन्द्र गमनं मम सांप्रतम् । विज्ञापितुं नन्दव्रजं नन्दं वा नन्दनन्दनम्
यद्यायातो नन्दपुत्रो यागो ते च महोत्सवे । अवश्यं तद्विरोधश्च भविष्यति त्वया सह
तमहं च समानीय कारयिष्यामि संयुतम् । इति मे न हि भद्रं च विध्नस्तस्य तवापि च
पित्राऽऽनोतो मृतः कृष्ण इति सर्वो वदिष्यति । वसुदेवः सुतद्वारा जघान नृपमेव च
द्वयोरेकतरस्यापि सद्यो मृत्युर्भविष्यति । पतिष्यन्ति च शूराश्च नास्ति युद्धं निरामिषम्
वसुदेववचः श्रुत्वा रक्तपङ्कचलोचनः । खड्गं गृहीत्वा तं हन्तुं प्रययौ नृपतीश्वरः
हाहेति कृत्वा पुत्रं च वारयामास तत्क्षणम् । उग्रसेनो महाराजमतीव बलवान्मुने
स्वपीठाद्वसुदेवश्च कोपाविष्टो गृहं ययौ । अक्रूरं प्रेरयामास गन्तुं नन्दव्रजं नृपः
दूतान्प्रस्थापयामास शीघ्रं प्रतिदिशं तथा । आययुर्मुनयः सर्वे नृपश्च सपरिच्छदा
दिक्पालाश्च सुराः सर्वे ब्राह्मणाश्च तपस्विनः । सनकश्च सनन्दश्च वोढुः पञ्चशिखस्तथा
सनत्कुमारो भगवान्प्रज्वलन्ब्रह्मतेजसा । कपिलश्चासुरिः पैलः सुमन्तुश्च सनातनः
पुलहश्च पुलस्त्यश्च भृसुश्च क्रतुरङ्गिराः । मरीचिः कश्यपश्चैव दक्षोऽत्रिश्च्यवनस्तथा
भरद्वाजश्च व्यासश्च गौतमश्च पराशरः । प्रचेताश्च वसिष्ठश्च संवर्तश्च बृहस्पतिः
कात्यायनो याज्ञवल्क्योऽप्युत्तङ्कः सौभरिस्तथा । पर्वतो देवलश्चैव जैगीषव्यश्च जैमिनिः
विश्वामित्रश्च सुतपाः पिप्पलः शाकटायनः । जाबालिर्जाङ्गलिश्चैव पिशलिश्च शिलालिकः