राहुग्रस्तं च गगने मण्डलं चन्द्रसूर्ययौः । एककालेच पश्यामि सर्वग्रासं च बान्धवाः
उल्कापातं धूमकेतुं भूकम्पं राष्ट्रविप्लवम् । झञ्झावातं महोत्पातं पश्यामि च पुरोहित
वायुना घूर्णमानांश्च च्छिन्नस्कन्धान्महीरुहान् । पतितान्पर्वताश्चैव पश्यामि पृथिवीतले
पुरुषं छिन्नशिरसं रृत्यन्तं नग्नमुच्छ्रितम् । मुण्डमालाकरं घोरं पश्यामि च गृहे गृहे
दग्थं सर्वाश्रमं भक्मपूर्णमङ्गारसंकुलम् । हाहाकारं च कुर्वन्तं सर्वं पश्यामि सर्वतः
इत्येवमुक्त्वा राजा स विरराम सभातले । दृषद्वा (श्रृत्वा) स्वप्तं बान्धवाश्च न तमुक्त्वानिशश्वसुः
जहार चेतनां सद्यः सत्यकश्च पुरोहितः । मत्वा विनाशं कंसस्य यजमानस्य नारद
रुरोद नारीवर्गश्च पिता माता च शोकतः । मेने विनाशकालं च सद्यः स्वयमुपस्थितम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo कंसदुःखप्न- कथनं नाम त्रिषष्टितमोऽध्यायः
अथ चतुःषष्टितमोऽध्यायः नारायण उवाच सर्व कृत्वा परामर्शं सत्यकश्च पुरोहितः । बुद्धिमाञ्छुक्रशिष्यश्च तमुवाच हितं मुने
सत्यक उवाच भयं त्यज महाभाग भयं किं ते मयि स्थिते । कुरु यागं महेशस्य मर्वारिष्टविनाशनम्
यागो धनुर्मखो नाम बह्वन्नो बहुदक्षिणः । दुःशप्नानां नाशकरः शत्रुभीतिविनाशकः
आध्यात्मिकमाधिदैवमाधिभौतिकमुत्कटम् । एषां त्रिविधोत्पातानां खण्डनो भूतिवर्धंनः
यागे समाप्ते शंभुश्च जरामृत्युहरं वरम् । ददाति साक्षाद्भवति दाता च सर्वसंपदाम्
चकारेमं च यागं च पुरा बाणो महाबलः । नन्दी परशुरामश्च भल्लश्च बलिनां वरः
पुरा ददौ धनुरिदं शिवो नन्दीश्वराय च । यागेन भूत्वा सिद्धः स ददौ बाणाय धार्मिकः
कृत्वा यागं महासिद्धो ददौ रामाय पुष्करे । तुभ्यं ददौ परशुरामः कृपया च कृपानिधिः
सहस्रहस्तपरिमितं दैर्ध्येऽतिकठिनं नृप । दशहस्तप्रशस्तं च शंकरेच्छाविनिर्मितम्
पशुपतेः पशुपतं युक्तयानेन दुर्वहम् । सर्वे भङ्क्तुं न शक्ताश्च देवं नारायणं विना
यागे च धनुषः पूजां शंकरस्य तु शंकरे । कुरु शीघ्रं शुभार्थं च सर्वान्कुरु निमन्त्रणम्
अस्मिन्यागे धनुर्भङ्गो भवेद्यदि नराधिप । विनाशो यजमानस्य भविष्यति न संशयः
भग्ने धनुषि यागश्च भग्नो भवति निश्चितम् । फलं ददाति को वाऽत्र चानिष्पन्ने च कर्मणि
ब्रह्मा च धनुषो मूले मध्ये नारायणः स्वयम् । अग्रे चोग्रप्रतापश्च महादेवो महामते
धनुर्हि त्रिविकारं च सद्रत्नखचितं वरम् । ग्रीष्ममध्याङ्नमार्तंण्डप्रभाप्रच्छन्नकारण्
अशक्तश्च नमयितुमनन्तश्च महाबलः । सुर्यश्च कार्तिकेयश्च का कथाऽन्यस्य भूमिप
त्रिपुरारिः पुराऽनेन जघान त्रिपुरं मुदा । निर्भयं कुरु स्वच्छन्दं मङ्गलार्ह महोत्सवम्
मत्यकस्य वचः श्रुत्वा चन्द्रवंशविवर्धनः । उवाच कंसः सर्वार्थे सततं च हितैषिणम्
कंस उवाच वसुदेवगृहे जज्ञे मद्वधी कुरनाशनः । स्वच्छन्दं नन्दगेहे च वर्धते नन्दनन्दनः
मद्वन्धुवर्गाञ्छूरांश्च मन्त्रिणः सुविशारदान् । भगिनीं पूतनां पूतां जघान बालको बली
गोवर्धनं दधार्रककरेण बलवर्धनः । महेन्द्रस्य च शूरस्य चकार च पराभवम्