रुतोदोच्चैर्लक्ष्मणश्च सुग्रीवश्चापि नारद । वानरा रुरुदुः सर्वे सहबलपराक्रमाः
निबध्य सेतुं लङ्कां च प्रययौ रघुनन्दनः । ससैन्यः सानुजः शीघ्रं संनद्धश्चापि नारद
निहत्य रावणं रामो रणं कृत्वा सबान्धवम् । चकार मोक्षणं ब्रह्मन् सितायश्च शुभेक्षणे
कृत्वा पुष्पकयानेन सीतां सत्यपरायणाम् । अयोध्यां प्रययौ शीघ्रं क्रीडाकौतुकमङ्गलैः
क्रीडां चकार भगवान् सीतां कृत्वा च वक्षसि । विजहौ विरहज्वालां सीता रामश्च तत्क्षणम्
सप्तद्वीपेश्वरो रामो बभूव पृथिवीतले । बभूव निखिला पृथ्वी आधिव्याधिविवर्जिता
बभूवतू रामपुत्रौ धार्मिकौ च कुशीलवौ । तयोश्च पुत्रैः पौत्रेश्च सूर्यवंशोद्भवा नृपाः
इति ते कथितं वत्स श्रीरामचरितं शुभम् । सुखदं मोक्षदं सारं पारपोतं भवार्णवे
अथ त्रिषष्टितमोध्यायः नारायण उवाच अथ कंसो विचिन्त्यैवं दृष्ट्वा दुःस्वप्नमेव च । समुद्विग्नो महाभीतो निराहारो निरुत्सुकः
पुत्रं मित्रं बन्धुगणं बान्धवं च पुरोहितम् । समानीय सभामध्ये तानुवाच सुदुःखितः
कंस उवाच मया दृष्टो निशीथे यो दुःस्वप्नो हि भयप्रदः । निबोधत बुधाः सर्वे बान्धवाश्च पुरोहिताः
बिभ्रती रक्तपुष्पाणां मालां सा रक्तचन्दनम् । रक्ताम्बनं खड्गतीक्ष्णं खर्परं च भयंकरम्
प्रकृत्याट्टाट्टहासं च लोलजिह्वा भयंकरी । अतीव वृद्धा कृष्णाङ्गी नगरे मम नृत्यति
मुक्तकेशी छिन्ननासा कृष्णा कृष्णाम्बारप्रिया । विधवा सा महाशूद्री मामालिङ्गितुमिच्छति
मलिनं चैलखण्डं च बिभ्रती रूक्षमूर्धजान् । दधती चूर्णतिलकं कपोलै मम वक्षसि
कृष्णवर्णानि पक्वानि च्छिन्नभिन्नानि सत्यक । पतन्ति कृत्वा शब्दांश्च शश्वत्तालफलानि च
कुचैलो विकृताकारो म्लेच्छो हि रूक्षमूर्धजः । ददाति मह्यं भूषायां छिन्नभिन्नकपर्दकान्
महारुष्टा च दिव्या स्त्री पतिपुत्रवती सती । बभञ्ज पूर्णकुम्भं च साऽभिशप्य पुनः पुनः
अम्लानामोंडूमालां च रक्तचन्दनचर्चिताम् । ददाति मङ्यं विप्रश्च महारुष्टोऽतिशप्य च
क्षणमङ्गारवृष्टिश्च भस्मवृष्टिः क्षणं क्षणम् । क्षणं क्षणं रक्तवृष्टिर्भवेच्च नगरे मम
वानरं वायसं श्वानं भल्लूकं सूकरं खरम् । पश्यामि विकटाकारं शब्दं कुर्वन्तमुल्बणम्
पश्यामि शुष्ककाष्ठानां राशिमम्लानकज्जलम् । अरुणोदयवेलायां कपींश्चिन्ननखानि च
पीतवस्त्रपरिधाना शुक्लचन्दनचर्चिता । बिभ्रती मालतीमालां रत्नभूषणभूषिता
क्रीडाकमलहस्ता सा सिन्दूरबिन्दुशोभिता । कृत्वाऽभिशापं मां रुषटा याति मन्मन्दिरात्सती
पाशहस्तांश्च पुरुषान्मुक्तकेशान्भयंकरान् । अतिरूक्षांश्च पश्यामि विशातो नगरं मम
नग्ननारी सुक्तकेशी नृत्यन्ती च गृहे गृहे । अतीव विकृताकारां पश्यामि सस्मितां सदा
छिन्ननासा च विधवा महाशूद्री दिगम्बरा । सा तैलाभ्यङ्गितं मां च करोत्यतिभयंकरी
निर्वाणाङ्गारयुक्ताश्च भस्मबूर्णा दिगम्बरा । अतिप्रभातसमये चित्राः पश्यामि सस्मिताः
पश्यामि च विवाहं च नृत्यगीतमनोहरम् । रक्तवस्त्रपरीधानान्पुरिषान्रक्तमीर्धजान्
रक्तं वमन्तं पुरुषं नृत्यन्तं नग्नमुल्बणम् । धावन्तं च शयानं च पश्यामि सस्मितं सदा