प्राप्य मङ्गलवार्तां च मत्तो राजीवलोचनः । गम्भीरं सागरं बद्ध्वा सोऽचिरेणाऽऽगमिष्यति
निहत्य रावणं पापं सपुत्रं च सबान्धवम् । करिष्यत्यचिरेणैव हे मातस्तव मोक्षणम्
अद्य रत्नमयीं लङ्कां निःशङ्कस्त्वतप्रसादतः । भस्मीभूतां करिष्यामि मातः पश्य च सस्मितम्
मर्कटीडिम्भतुल्यां च लङ्कां पश्यामि सुव्रते । मूत्रतुल्यं समुद्रं च शरावमिव भूतलम्
पिपीलिकासंघमिव ससैन्यं रावणं तथा । संहर्तुं च समर्थोंऽहं मुहूर्तार्धेन लीलया
रामप्रतिज्ञारक्षार्थं न हनिष्यामि सांप्रतम् । स्वस्था भव महाभागे त्यज भीतिं मदीश्वरि
पानरस्य वचः श्रुत्वा रुरोदोच्चैर्मुहुर्मुहुः । उवाच वचनं भीता रामपतिव्रता
सीतोवाच अये जीवति मे रामो मच्छोकार्णवदारुणात्
अपि मे कुशली नाथः कौसल्यानन्दनः प्रभु । कीदृशश्च कृशाङ्गश्च जानकीजीवनोऽधुना
किमाहारश्च किं भुङ्क्ते मम प्रणाधिकः प्रियः । अपि पारे समुद्रस्य सत्यं सीतापतिः स्वयम्
अपि सत्यं क संनद्धो न शोकेन हतः प्रभुः । अपि स्मरति मां पापां स्वामिनो दुःखरूपिणीम्
मदर्थे कति दुःखं वा संप्राप स मदीश्वरः । हारो नाऽऽरोर्पितः कण्ठे पुरा व्यवहितो रतौ
अधुनैवाऽऽवयोर्मध्ये समुद्रः शतयोजनः । अपि द्रक्ष्यामि तं रामं करुणासागरं प्रभुम्
कान्तं शान्तं नितान्तं च धर्मिष्ठं धर्मकर्मणि । अपि सेवां करिष्यामि पादपद्मे पुनः प्रभोः
पतिसेवाविहीनाया मूढाया जीवनं दृथा । अपि मे धर्मपुत्रश्च सत्यं जीवति लक्ष्मणः
मच्छोकसागरे मग्नो भग्नदर्पो मया विना । वीराणां प्रवरो धर्मी देवकल्पश्च देवरः
अपि सत्यं ससंन्नद्धो सत्प्रभोरनुजः सदा । अपि द्रक्ष्यामि सत्यं तं लक्ष्मणं धर्मलक्षणम्
इत्येवं वचनं श्रुत्वा दत्त्वा प्रत्युत्तरं शुभम् । भस्मीभूतां च तां लङ्कां चकार लीलया मुने
पुनः प्रबोधं तस्यै च दत्तवा वायुसुतः कपिः । प्रययौ लीलया वेगाद्यत्र राजीवलोचनः
सर्वं तत्कथायामास वृत्तान्तं मातुरेव च । सीतामङ्गलवृत्तान्तं श्रुत्वा रामो रुरोद च
रुतोदोच्चैर्लक्ष्मणश्च सुग्रीवश्चापि नारद । वानरा रुरुदुः सर्वे सहबलपराक्रमाः
निबध्य सेतुं लङ्कां च प्रययौ रघुनन्दनः । ससैन्यः सानुजः शीघ्रं संनद्धश्चापि नारद
निहत्य रावणं रामो रणं कृत्वा सबान्धवम् । चकार मोक्षणं ब्रह्मन् सितायश्च शुभेक्षणे
कृत्वा पुष्पकयानेन सीतां सत्यपरायणाम् । अयोध्यां प्रययौ शीघ्रं क्रीडाकौतुकमङ्गलैः
क्रीडां चकार भगवान् सीतां कृत्वा च वक्षसि । विजहौ विरहज्वालां सीता रामश्च तत्क्षणम्
सप्तद्वीपेश्वरो रामो बभूव पृथिवीतले । बभूव निखिला पृथ्वी आधिव्याधिविवर्जिता
बभूवतू रामपुत्रौ धार्मिकौ च कुशीलवौ । तयोश्च पुत्रैः पौत्रेश्च सूर्यवंशोद्भवा नृपाः
इति ते कथितं वत्स श्रीरामचरितं शुभम् । सुखदं मोक्षदं सारं पारपोतं भवार्णवे
अथ त्रिषष्टितमोध्यायः नारायण उवाच अथ कंसो विचिन्त्यैवं दृष्ट्वा दुःस्वप्नमेव च । समुद्विग्नो महाभीतो निराहारो निरुत्सुकः
पुत्रं मित्रं बन्धुगणं बान्धवं च पुरोहितम् । समानीय सभामध्ये तानुवाच सुदुःखितः