हनुमान्पययौ लङ्कां सीतान्वेषणहेतवे । रामादधीतसंदेशो ययौ रुद्रकलोद्भवः
अशोककानने सीतां ददर्श शोककर्शिताम् । निराहारामतिकृशां कुह्वां चन्द्रकलामिव
सततं राम रामेति जपन्तीं भक्तिबूर्वकम् । बिभ्रतीं च जटाभारं तप्तकाञ्चनसंनिभाम्
ध्यायमानां पदाब्जं च श्रीरामस्य दिपानिशम् । शुद्धाशयां सुशीलां च सुव्रतां च पतिव्रताम्
महालक्ष्मीलक्ष्मयुक्तां प्रज्वलन्तीं स्वतेजसा । पुण्यदां सर्वतीर्थानां दृष्ट्वा भुवनपावतीम्
प्रणम्य मातरं दृष्ट्वा रुदतीं वायुनन्दनः । रत्नाङ्गुलीयं रामस्य ददौ तस्यै मुदाऽन्वितः
रुरोद धर्मी तां दृष्ट्वा धृत्वा तच्चरणाम्बुजम् । उवाच रामसंदेशं सीताजीवनरक्षणम्
हनुमानुवाच पारेसमुद्रं श्रीरामः संनद्धश्च सलक्ष्मणः । बभूव राममित्रं च सुग्रीवो बलवान्कपिः
रामश्च वालिनं हत्वा राज्यं निष्कण्टकं ददौ । सुग्रीवाय च मित्राय तद्भार्यं वालिना हृताम्
सुग्रीवश्च तवोद्धारं स्वीचकार च धर्मतः । वानराश्च ययुः सर्वे तवान्वेषणकारणात्
प्राप्य मङ्गलवार्तां च मत्तो राजीवलोचनः । गम्भीरं सागरं बद्ध्वा सोऽचिरेणाऽऽगमिष्यति
निहत्य रावणं पापं सपुत्रं च सबान्धवम् । करिष्यत्यचिरेणैव हे मातस्तव मोक्षणम्
अद्य रत्नमयीं लङ्कां निःशङ्कस्त्वतप्रसादतः । भस्मीभूतां करिष्यामि मातः पश्य च सस्मितम्
मर्कटीडिम्भतुल्यां च लङ्कां पश्यामि सुव्रते । मूत्रतुल्यं समुद्रं च शरावमिव भूतलम्
पिपीलिकासंघमिव ससैन्यं रावणं तथा । संहर्तुं च समर्थोंऽहं मुहूर्तार्धेन लीलया
रामप्रतिज्ञारक्षार्थं न हनिष्यामि सांप्रतम् । स्वस्था भव महाभागे त्यज भीतिं मदीश्वरि
पानरस्य वचः श्रुत्वा रुरोदोच्चैर्मुहुर्मुहुः । उवाच वचनं भीता रामपतिव्रता
सीतोवाच अये जीवति मे रामो मच्छोकार्णवदारुणात्
अपि मे कुशली नाथः कौसल्यानन्दनः प्रभु । कीदृशश्च कृशाङ्गश्च जानकीजीवनोऽधुना
किमाहारश्च किं भुङ्क्ते मम प्रणाधिकः प्रियः । अपि पारे समुद्रस्य सत्यं सीतापतिः स्वयम्
अपि सत्यं क संनद्धो न शोकेन हतः प्रभुः । अपि स्मरति मां पापां स्वामिनो दुःखरूपिणीम्
मदर्थे कति दुःखं वा संप्राप स मदीश्वरः । हारो नाऽऽरोर्पितः कण्ठे पुरा व्यवहितो रतौ
अधुनैवाऽऽवयोर्मध्ये समुद्रः शतयोजनः । अपि द्रक्ष्यामि तं रामं करुणासागरं प्रभुम्
कान्तं शान्तं नितान्तं च धर्मिष्ठं धर्मकर्मणि । अपि सेवां करिष्यामि पादपद्मे पुनः प्रभोः
पतिसेवाविहीनाया मूढाया जीवनं दृथा । अपि मे धर्मपुत्रश्च सत्यं जीवति लक्ष्मणः
मच्छोकसागरे मग्नो भग्नदर्पो मया विना । वीराणां प्रवरो धर्मी देवकल्पश्च देवरः
अपि सत्यं ससंन्नद्धो सत्प्रभोरनुजः सदा । अपि द्रक्ष्यामि सत्यं तं लक्ष्मणं धर्मलक्षणम्
इत्येवं वचनं श्रुत्वा दत्त्वा प्रत्युत्तरं शुभम् । भस्मीभूतां च तां लङ्कां चकार लीलया मुने
पुनः प्रबोधं तस्यै च दत्तवा वायुसुतः कपिः । प्रययौ लीलया वेगाद्यत्र राजीवलोचनः
सर्वं तत्कथायामास वृत्तान्तं मातुरेव च । सीतामङ्गलवृत्तान्तं श्रुत्वा रामो रुरोद च