श्रुत्वा शूर्पणखावाक्यं धर्मं संस्मृत्य धार्मिकः । उवाच सधुरें वाक्यं शावभीतश्च नारद
श्रीराम उवाच अम्बमातः सभार्योऽहमभार्यं गच्छ मेऽनुजम् । दुःखं प्रियोऽन्यां प्रभजेदितरं च सुखालयम्
रामस्य वचनं श्रुत्वा प्रययौ लक्ष्मणं मुदा । ददर्श लक्षमणं शान्तं कान्तं च लक्षणान्वितम्
मां भजस्व महाभागेत्युवाच च पुनः पुनः । लक्ष्मणास्तद्वचः श्रुत्वा तामुवाच कुतूहलात्
लक्ष्मण उवाच विहाय रामं सर्वेशं हे मूढे दासमिच्छसि । सीतादासी च मत्पत्नी सीतादासोऽहमेव च
भव सीतासपत्नी त्वं गच्छ रामं मदीश्वरम् । तव पुत्रो भविष्यामि सीतायाश्चयथा सति
लक्ष्मणास्य वचः श्रुत्वा कामेन हृतमानसा । उवाच लक्ष्मणं मूढा शुष्ककण्ठेष्ठतालुका
शूर्पणखोवाच यदी त्यजसि मां मूढ कामात्स्वयमुपस्थिताम् । युवयोश्च विपत्तिश्च भविष्य ति न संशयः
ब्रह्मा च मोहिनीं त्यक्तवा विश्वेऽपूज्ये बभूव सः । रम्भाशापेन दक्षश्च छागमस्तो बभूव सः
स्वर्वैद्यश्चोर्वशीशापाद्यज्ञभागविवर्जितः । रूपहीनः कुबेरश्च मेनाशापेन लक्ष्मण
कामो घृताचीशापेन बभूव भस्मसाच्छिवात् । बलिर्मदालसाशापाद्भ्रष्टराज्यो बभूव ह
शापेन मिश्रकेश्याश्च हृतभार्यो बृहस्पतिः । मम शापात्तथा रामो हृतभार्यो भविष्यति
कामातुरां यौवनस्थां भार्या स्वयमुपस्थिताम् । न त्यजेद्धर्मभीतश्च श्रुतं माध्यंदिने पुरा
इह त्यक्त्वा पिबद्ग्रस्तः परत्र नरकं व्रजेत् । श्रुत्वा शूर्पणखावाक्यमर्धयन्द्रेण लक्ष्मणः
चिच्छेद नासिकां तस्याः क्षुरधारेण लीलया । तस्या भ्राता च युयुधे बलवान्खरदूषणः
ससैन्यो लक्ष्मणास्त्रेण स जगाम यमालयम् । चतुर्दशसहस्रं च राक्षसान्खरदूषणम्
मृतान्दृष्ट्वा शूर्पणखा भर्त्सयामास रावणम् । सर्वं निवेदनं कृत्वा जगाम पुष्करं तदा
ब्रह्मणश्च वरं प्राप कृत्वा च दुष्करं तपः । उवाच तादृशीं दृष्ट्वा निराहारां तपस्विनीम्
सर्वज्ञस्तन्मनो मत्वा कृपासिन्धुश्च नारद
ब्रह्मोवाच अप्राप्य रामं दृष्प्रापं करोषि दुष्करं तपः । जितेन्द्रियाणां प्रवरं लक्ष्मणं धर्मलक्षणम्
ब्रह्मविष्णुशिवादीनामीश्वरं प्रकृतेः परम् । जन्मान्तरे च भर्तारं प्राप्स्यसि त्वं वरानने
इत्येवमुक्त्वा ब्रह्म च जगाम स्वालयं मुदा । देहं तत्याज सा वह्नो सा च कुब्जा बभूव ह
अथ शूर्पणखा वाक्यात्कोपात्कम्पितविग्रहः । जहार मायया सीतां मायावी राक्षसेश्वरः
सीतां न दृष्ट्वा रामश्च मूर्च्छां प्राप चिरं मुने । चेतनां कारयामास भ्राता चऽऽध्यात्मिकेन च
ततो बभ्राम गहनं शैलं च कंदरं नदम् । अहर्निशं च शोकार्तो मुनीनामाश्रमं मुने
चिरमन्वेषणं कृत्वा न दृष्ट्वा जानकीं विभुः । चकार मित्रतां रामः सुग्रीवेण स्वयं प्रभुः
निहत्य वालिनं बाणैर्ददौ राज्यं च लीलया । सुग्रीवाय च मित्राय स्वीकारपालनाय वै
दूतान्प्रस्थापयामास सर्वत्र वानरेश्वाः । तस्थौ सुग्रीवभवने श्रीरामश्च सलक्ष्मणः
हनूमते वरं दत्तवा रम्यं रत्नाङ्गुलीयकम् । सीतायै शुभसंदेशं प्राणधारणकारणम्
तं च प्रस्थापयामास दक्षिणां दिशमुत्तमाम् । सुप्रीत्याऽऽलिङ्गनं दत्त्वा पादरेणून्सुदुर्लभान्