नारायण उवाच ब्रह्मणा प्रार्थितो विष्णुर्जातो दशरथात्स्वयम् । कौसल्यायां च भगवांस्त्रेतायां च मृदाऽन्वितः
कैकेय्यां भरतश्चैव रामतुल्यो गुणेन च । लक्ष्मणश्चापि शत्रुघ्नः सुमित्रायां गुणार्णवः
पिश्वामित्रप्रेषितश्च श्रीरामश्च सलक्ष्मणः । प्रययौ मिथिलां रम्यां सीताग्रहणहेतवे
दृष्ट्वा पाषाणारूपा च रामो वर्त्मनि कामिनीम् । विश्वामित्रं च पप्रच्छ कारणं जगदीश्वरः
रामस्य वचनं श्रुत्वा विश्वामित्रो महातपाः । उवाच तत्र धर्मिष्ठो रहस्यं सर्वमेव च
कारणं तन्मुखाच्छ्रृत्वा रामो भुवनपावनः । पस्पर्श पादाङ्गुलिना सा बभूव च पद्मिनी
सा राममाशिषं कृत्वा प्रययौ भर्तृ मन्दिरम् । शुभाशिषं ददौ तस्मै भार्या संप्राप्य गौतमः
रामश्च मिथिलां गत्वा धनुर्भङ्गं शिवस्या च । चकार पाणिग्रहणं सीतायाश्चैव नारद
कृत्वा विवाहं राजेन्द्रो भृगुदर्प निहत्य च । णयोध्यां प्रययौ रम्यां क्रीडाकौतुकमङ्गलैः
राजा पुत्रं नृपं कर्तुमिषेय कृतसादरम् । सप्ततीर्थोदकं तूर्णमानीय मुनिपुंगवान्
कृताधिवासं श्रीरामं सर्व मङ्गलसंयुतम् । दृष्ट्वा भरतमाता च कैकेयी शोकविह्वला
वरयामास राजानं पूर्वमङ्गीकृतं वरम् । रामस्य वनवासं च राजत्वं भरतस्य च
वरं दातुं महाराजो नेयेष प्रेममोहितः । धर्मसत्यभयेनैवोवाच रामो नृपं सुधी
श्रीराम उवाच तडागशतदानेन यत्पुण्यं लभते नरः । ततोऽधिकं च लभते वापीदानेन निश्चितम्
दशवापीप्रदानेन यत्पुण्यं लभते नरः । ततोऽधिकं च लभते पुण्यं कन्याप्रदानतः
दशकन्याप्रदानेन यत्पुण्यं लभते नरः । ततोऽधिकं च लभते यज्ञैकेन नराधिप
शतयज्ञेन यत्पुण्यं लभते पुण्यकृज्जनः । ततोऽधिकं च लभते पुत्रास्यदर्शनेन च
दर्शने शतपुत्राणां यत्पुण्यं लभते नरः । तत्पुण्यं लभते नूनं पुण्यवान्सत्यबालनात्
न हि सत्यात्परो धर्मो नानृतात्पातकं परम् । न हि गह्घासमं तीर्यं म देवः केशवात्परः
नास्ति धर्मात्परो बन्धुर्नास्ति धर्मात्परं धनम् । धर्मात्प्रियः परः को वा स्पधर्मं रक्ष यत्नतः
स्वधर्मे रक्षिते तात शश्वत्सर्वत्र मङ्गलम् । यशस्यं सुप्रतिष्ठा च प्रतापः पूजनं परम्
यतुर्दशाब्दं धर्मेण त्यक्त्वा गृहसुखं म्रमन् । वनवासं करिष्यामि सत्यस्य पालनाय ते
कृत्वा सत्यं च शपथमिच्छयाऽनिच्छयाऽथवा । न कृर्यात्पालनं यो हि भस्मान्तं तस्य सूतकम्
कुम्भीपाके स पचति यावच्चन्द्रदिवाकरौ । ततो मूको भवेत्कुषठी मानवः सप्तजन्मसु
इत्योवमुक्त्वा श्रीरामो विधाय कल्कलं जटाम् । प्रययौ च महारण्ये सीतया लक्ष्मणेन च
पुत्रशोकान्महाराजास्तत्याज स्वतनुं मुने । पालनाय पितुः सत्यं रामो बभ्रामकानन
कालान्तरे महारण्ये भगिनी रावणस्य च । भ्रमन्ती कानने घोरे भर्त्रा सार्धं सुगौतुकात्
ददर्श रामं कुलटा कामार्ता राक्षसी तदा । पुलकाञ्चितसर्वाङ्गी सूर्च्छमाप स्मरेण च
श्रीरामनिकटं गत्वा सस्मितोवाच कामुकी । शस्वधौवनसंयुक्ताऽतिप्रौढा कामदुर्मदा
शूर्पणखोवाच हेराम हे धनश्याम रूपधाम सुणान्वित । मायानुरक्तां वनितां मां गृहाण सुनिर्जने