परस्त्रीसेवनं शक्र इहैवात्ययशस्कनम् । परत्र नरकं घोरं ददाति कामुकाय च
इत्युक्तवा च महासाध्वी विहाय तं च कामुकम् । प्रययौ स्वगृहं तूर्ण गृहिणी गौतमस्य च
तत्सर्व कथयामास गौतमाय तपस्विने । तस्थौ प्रहस्य स मुनिर्महन्द्रं च विनिन्द्य च
एकदा गौतमः शीघ्रं जगाम शंकरालयम् । शक्रो गौतमरूपेण तां संभोगं चकार सः
सर्व ज्ञात्वा च सर्वज्ञः मन्दिरद्वारमाययौ । निर्गच्छन्तं महेन्दं च ददर्श मुनिपुंगवः
नग्नामहल्यां रहसि पीनश्रोणिपयोधराम् । मुनिः शशाप शकं च भगाङ्गश्च भवेति च
कोपाच्छशाप पत्नीं च रुदतीं भयविह्वलाम् । त्वं च पाषाणरूपा च महारण्ये भवेति च
ययौ च स्वगृहं शक्रो लज्जैकतानमानसः । उवाच मधुरं भीता स्वामिनं शोककर्शिता
अहल्योवाच मां च दासीं च निर्दोषां कथं त्यजसिधार्मिक । त्वं च वेदविदां श्रेष्ठो विचारं कुरु धर्मतः
गौतम उवाच त्वां जानामि मनःशुद्धां सुव्रतां च पतिव्रताम् । त्यक्ष्यामि च तथाऽपि त्वां परवीर्यं च बिभ्रतीम्
परभोग्या च या कान्ता साऽशुद्धा सर्वकर्मसु । तां योगच्छेन्महामूढो नरकं तस्य कल्पकम्
अन्नं विष्ठा जलं मूत्रं परभोग्याश्च (या)निश्चितम् । उपस्पृशेन्न तस्याश्च हन्ति पुप्यं पुराकृतम्
अनिच्छया च श्रृङ्गाने स्त्री जारेण न दुष्यति । दुष्टा स्त्री निश्चितं साध्वी स्वेच्छाश्रृङ्गारकर्मणि
त्वं शक्रं स्वामिनं मत्वा सुखं भुक्त्वा रतिं गृहे । पश्चाद्बभूव ते ज्ञानं मां दृष्ट्वा च निशामय
गच्छ गच्छ महारण्यं भव पाषाणरूपिणी । रामपादाङ्गुलिस्पर्शात्सद्यः पूता भपिष्यसि
मां संप्राप्स्यसि तत्पुण्यात्पुनरेवाऽऽगमिष्यसि । गच्छ कान्ते महारण्यमित्युक्त्वा तपसे ययौ
इत्येवं कथितं सर्व महेन्द्रदर्पभञ्जनम् । पुनः संप्राप लक्ष्मीं च विभोश्च कृपया मुने
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मख o उत्तo नारदनाo एकषष्टितमोऽध्यायः
अथ द्विषष्टितमोऽध्यायः नारद उवाच ब्रह्मन् केन प्रकारेण रामो दाशरथिः स्वयम् । चकार मोक्षणं कुत्र युगे गौतमयोषितः
रामावतारं सुखदं समासेन मनोहरम् । कथायस्व महाभाग श्रोतुं कौतूहलं मम
नारायण उवाच ब्रह्मणा प्रार्थितो विष्णुर्जातो दशरथात्स्वयम् । कौसल्यायां च भगवांस्त्रेतायां च मृदाऽन्वितः
कैकेय्यां भरतश्चैव रामतुल्यो गुणेन च । लक्ष्मणश्चापि शत्रुघ्नः सुमित्रायां गुणार्णवः
पिश्वामित्रप्रेषितश्च श्रीरामश्च सलक्ष्मणः । प्रययौ मिथिलां रम्यां सीताग्रहणहेतवे
दृष्ट्वा पाषाणारूपा च रामो वर्त्मनि कामिनीम् । विश्वामित्रं च पप्रच्छ कारणं जगदीश्वरः
रामस्य वचनं श्रुत्वा विश्वामित्रो महातपाः । उवाच तत्र धर्मिष्ठो रहस्यं सर्वमेव च
कारणं तन्मुखाच्छ्रृत्वा रामो भुवनपावनः । पस्पर्श पादाङ्गुलिना सा बभूव च पद्मिनी
सा राममाशिषं कृत्वा प्रययौ भर्तृ मन्दिरम् । शुभाशिषं ददौ तस्मै भार्या संप्राप्य गौतमः
रामश्च मिथिलां गत्वा धनुर्भङ्गं शिवस्या च । चकार पाणिग्रहणं सीतायाश्चैव नारद
कृत्वा विवाहं राजेन्द्रो भृगुदर्प निहत्य च । णयोध्यां प्रययौ रम्यां क्रीडाकौतुकमङ्गलैः
राजा पुत्रं नृपं कर्तुमिषेय कृतसादरम् । सप्ततीर्थोदकं तूर्णमानीय मुनिपुंगवान्