विहाय हरिदास्यं च विषये यन्मनश्चलम्
का वा कस्य प्रिया पुत्रो बन्धुः को वा भवार्णवे
सुकर्म कारयेद्यो हि तन्मित्रं स पिता गुरुः
इत्येवं कथितं तात वेदबीजं यथागमम्
आदौ यास्यामि भगवन्नरनारायणाश्रमम्
इत्येवमुक्त्वा स मुनिर्विरराम पितुः पुरः
क्षणं पितुः पुरः स्थित्वा नारदो मुनिसत्तमः
श्रीनारद उवाच तत्सम्बन्धि च यज्ज्ञानं यत्र तद्गुणवर्णनम्।। 1.24.
ततः पश्चात्करिष्यामि त्वत्प्रीत्या दारसंग्रहम्
नारदस्य वचः श्रुत्वा प्रहृष्टः कमलोद्भवः
ब्रह्मोवाच विविक्ताश्रमिणां चैव न मन्त्रः सुखदायकः
निषेकाल्लभ्यते मन्त्रो गुरुर्भर्त्ता च कामिनी
महेश्वरस्तव गुरुः प्राक्तनो नः पुरातनः
तत एव भवान्मन्त्रं ज्ञानं लब्ध्वा पुरातनात्
इत्युक्त्वा जगतां धाता विरराम च शौनक
सौतिरुवाच ऊर्ध्वं ध्रुवाद्योजनलक्षमीप्सितं महार्हरत्नौघविनिर्मितं महत्
निराश्रये योगबलेन शम्भुना धृतं विचित्रं विविधालयान्वितम्
मयूखशून्यं रविचन्द्रयोर्मुने हुताशनैर्वेष्टितमेव केवलम्
पुरं वरं योजनलक्षविस्तृतं त्रिकोटिरत्नेन्द्रगृहान्वितं सदा
माणिक्यमुक्तामणिदर्पणैर्युतं नस्वप्नदृष्टं द्विज विश्वकर्मणः
सिद्धैर्नियुक्तं शतकोटिलक्षैकैस्त्रिकोटिलक्षैश्च युतं स्वपार्षदैः
सुरद्रुमैर्वेष्टितमेव सन्ततं मन्दारवृक्षप्रवरैः सुपुष्पितैः
दृष्ट्वा मुनिर्विस्मयमाप मानसे किं नात्र चित्रं सुरयोगिनां गुरौ
दूरे सभामण्डलमध्यगं शिवं ददर्श शान्तं शिवदं मनोहरम्
प्रतप्तहेमाभजटाधरं विभुं दिगम्बरं शुभ्रमनन्तमक्षरम् 1.25.
सुनीलकण्ठं भुजगेन्द्रमण्डितं योगीन्द्रसिद्धेन्द्र मुनीन्द्रवन्दितम्
प्रसन्नहास्यास्यमनोहरं वरं विश्वाश्रयाणां शिवदं वरप्रदम्
गत्वा समीपं मुनिरेष शूलिनं ननाम मूर्ध्ना पुलकाङ्कविग्रहः
दृष्ट्वा मुनीन्द्रप्रवरं च सस्मितं विधेः सुतं वेदविदां वरिष्ठम्
ददौ च तस्मै मुनये स संभ्रमादालिङ्गनं चाशिषमासनादिकम्