कलङ्करूपमिन्द्रस्य तच्चक्षुर्निकरं परम् । यथा चनद्रे कलङ्कश्च तानकाहरणादभूत्
नारद उवाच ब्रह्मन् केन प्रगारेण जहार गौतमप्रियाम् । महासतीसमहल्यां च पूज्यां भुवनपादनीम्
शुद्धाशायां महाभागां निर्मलां कमलाकलाम् । एतद्वेदितुमिच्छामि वद वेदविदां वर
नारायण उवाच पुष्करे तीर्थयात्रायां सूर्यपर्वणि नारद । तत्राऽऽगतामहल्यां च ददर्श पाकशासनः
सुस्मितां सुदर्ती शान्तां पीनक्षोणिपयोधराम् । म्रर्च्छामवाप चेन्द्रश्च दृष्टिमात्रेण तत्त्क्षणात्
अथापरदिने तां च दृष्ट्वा सन्दाकिनी तटे । एकाकिनीं सुस्मिसां च स्नातीं नग्नां सलज्जिताम्
दृष्ट्वा श्रोणिं स्तनयुगमतीव विपुलं हरिः । मूर्च्छमवाप कामार्तो जहार चेतनां पुनः
क्षणेन चेतनां प्राप्य गत्वा कामी तदन्तिकम् । उवाच श्लक्ष्णया वाचा विनयेन पतिव्रताम्
महेन्द्र उवाच अहो गुणमहो रूपमहो किं वा नवं वयः । अहो किं वा मुखश्रीस्ते शरच्चन्द्रं विनिन्दती
अहोकटाक्षं कुटिलं पुंसां चित्तविकर्षणम् । किमहो लोचनं पद्मप्रभामोचनमीप्सितम्
गमनं रमणीयं च गचखञ्जनभञ्जनम् । अहो वाक्यं सुमधुरं पीयूषादपि दुर्लभम्
किमहो विपुलश्रोणी कामाधारा मनोहरा । कामदा कामुकायैव मुनिमानसमोहिनी
अतीव कठिना पीना रम्भास्च म्भविडम्बिता । अहो नितम्बयुगुलं वर्तुलं चन्द्रबिम्बवत्
श्रीयुक्तं श्रीफलयुगतुल्यं ते स्तनयुग्मकम् । अत्युन्नतं सुकठिनं त्रैलोक्यचित्तमोहनम्
अहो किं वा तपस्तेपे गौतमश्च तपोधनः । संप्राप यत्फलेनैव सुदतीं सुन्दरीं वराम्
निषेव्य प्रकृतिं दुर्गा विष्णुमायां सनातनीम् । लक्ष्मीं च लक्ष्मीसदृशीमीदृशीं प्राप पद्मिनीम्
सुकोमलां सुवदनां ललनां नलिनाननाम् । शुद्धां च सुदतीं श्यामां न्यग्रोधदलमध्यमाम्
त्वत्पालनं च जानामिकामशास्त्रविचक्षणः । कामो वा कामुकश्चन्द्र किं त्वा जानाति गौतमः
मां प्रशंसन्ति नित्यं ते कामशास्त्रविचक्षणाः । उर्वश्याद्यश्चाप्सरसो मां प्रशंसन्ति संततम्
दासिं कृत्वा च दास्यामि शचीं तुम्यं वरानने । त्रैलोक्यलक्ष्मी विपुलां गृहण त्यज गौतमम्
अनभिज्ञं कामशास्त्रे दुर्बलं च तपस्विनम् । अव्यवाहार्य निष्कामं नारायणपरायणम्
अविदग्धो विधाता च योजयामाम योऽक्षमम् । ईदृशीं कामुकीं रम्यां ददाति च तपस्विने
इत्युक्त्वा कामुकः शक्रः पपात चरणे मृदा । तमुवाच महासध्वी वेदोक्तं च यथौचितम्
अहल्योवाच अभाग्याद्ब्रह्मणश्चापि मरीचेश्च तपस्विनः । अभाग्यात्कश्यपस्यापि त्वं पुत्रः पापमानसः
किं तज्जपेन तपसा मौनेन च व्रतेन च । सुरार्चनेन तीर्थेन स्त्रीभिर्यस्य मनोहृतम्
स्त्रीरूपं निर्मितं सृष्टौ मोहाय कामिनां मनः । अन्यथा न भवेत्सृष्टिः स्रष्टा तेने पुराऽऽज्ञया
सर्व मायाकरण्डश्च धर्ममार्गार्गलं नृणाम् । व्यवधानं च तपसां दोषाणामाश्रयं परम्
कर्मबन्धनिबद्धानां निगडं कठिनं स्मृतम् । प्रदीपरूपं कीटानां मीनानां बडिशं यथा
विषकृम्भं दुग्धमुखमारम्भे मधुनोपमम् । परिणामे दुःखबीजं सोपानं नरकस्य च
ऋषयः सनकाद्याश्च नोद्वाहं चक्रुरीप्सित्म् । परस्त्रीषु मनो येषां तेषां सर्व च निष्फलम्