अथैकषष्टि,मोऽध्यायः नारायण उवाच इति ते कथितं किंचिदिन्द्रस्य दर्पभञ्जनम् । अपरं श्रूयतां ब्रह्मन्सावधानं निगूढकम्
समुद्रमथनं कृत्वा पीत्वाऽमृतरसं पुरा । निर्जित्य दैत्यसंघांश्च बहुदर्पो बभूव ह
तदा कृष्णो बलिद्वारा शक्रदर्प बभञ्ज ह । भ्रष्टश्रियो बभूवुस्ते देवा इन्द्रपुरोगमाः
तदा बृहस्पतेः स्तौत्राददितेश्च व्रतेन ते । जातश्च स्वांशकलयाऽप्यदित्यां वामनो विभुः
याच्ञां कृत्वा बलिं राज्यं कृपया च कृपानिधिः । तस्मै ददौ महेन्द्राय देवेम्यश्चापि संपदम्
बभूव शक्रदर्पश्च पुनः कल्पान्तने पुरा । विभुर्दुवसिसो द्वारा जहार तच्छ्रियं मुने
पुनर्ददौ च कृपया कृपालुर्भक्तवत्सलः । पुनः श्रीदुर्मदः सोऽपि जहार गौतमप्रियाम्
तदा गौतमशापेन भमाङ्गश्च बभूव सः । संप्राप यातनामिन्द्रः स्वाङ्गवेदनया पुरा
उच्चैस्तं जहसुर्दृष्ट्वा ऋषयो मनवस्तदा । देवाश्च लज्जिताः सर्वे मृततुल्यो बृहस्पतिः
तदा सहस्रवर्ष च तपस्तप्त्वा रवेः पुरा । रवेर्वरेण शक्रः स सहस्राक्षो बभूव ह
कलङ्करूपमिन्द्रस्य तच्चक्षुर्निकरं परम् । यथा चनद्रे कलङ्कश्च तानकाहरणादभूत्
नारद उवाच ब्रह्मन् केन प्रगारेण जहार गौतमप्रियाम् । महासतीसमहल्यां च पूज्यां भुवनपादनीम्
शुद्धाशायां महाभागां निर्मलां कमलाकलाम् । एतद्वेदितुमिच्छामि वद वेदविदां वर
नारायण उवाच पुष्करे तीर्थयात्रायां सूर्यपर्वणि नारद । तत्राऽऽगतामहल्यां च ददर्श पाकशासनः
सुस्मितां सुदर्ती शान्तां पीनक्षोणिपयोधराम् । म्रर्च्छामवाप चेन्द्रश्च दृष्टिमात्रेण तत्त्क्षणात्
अथापरदिने तां च दृष्ट्वा सन्दाकिनी तटे । एकाकिनीं सुस्मिसां च स्नातीं नग्नां सलज्जिताम्
दृष्ट्वा श्रोणिं स्तनयुगमतीव विपुलं हरिः । मूर्च्छमवाप कामार्तो जहार चेतनां पुनः
क्षणेन चेतनां प्राप्य गत्वा कामी तदन्तिकम् । उवाच श्लक्ष्णया वाचा विनयेन पतिव्रताम्
महेन्द्र उवाच अहो गुणमहो रूपमहो किं वा नवं वयः । अहो किं वा मुखश्रीस्ते शरच्चन्द्रं विनिन्दती
अहोकटाक्षं कुटिलं पुंसां चित्तविकर्षणम् । किमहो लोचनं पद्मप्रभामोचनमीप्सितम्
गमनं रमणीयं च गचखञ्जनभञ्जनम् । अहो वाक्यं सुमधुरं पीयूषादपि दुर्लभम्
किमहो विपुलश्रोणी कामाधारा मनोहरा । कामदा कामुकायैव मुनिमानसमोहिनी
अतीव कठिना पीना रम्भास्च म्भविडम्बिता । अहो नितम्बयुगुलं वर्तुलं चन्द्रबिम्बवत्
श्रीयुक्तं श्रीफलयुगतुल्यं ते स्तनयुग्मकम् । अत्युन्नतं सुकठिनं त्रैलोक्यचित्तमोहनम्
अहो किं वा तपस्तेपे गौतमश्च तपोधनः । संप्राप यत्फलेनैव सुदतीं सुन्दरीं वराम्
निषेव्य प्रकृतिं दुर्गा विष्णुमायां सनातनीम् । लक्ष्मीं च लक्ष्मीसदृशीमीदृशीं प्राप पद्मिनीम्
सुकोमलां सुवदनां ललनां नलिनाननाम् । शुद्धां च सुदतीं श्यामां न्यग्रोधदलमध्यमाम्
त्वत्पालनं च जानामिकामशास्त्रविचक्षणः । कामो वा कामुकश्चन्द्र किं त्वा जानाति गौतमः
मां प्रशंसन्ति नित्यं ते कामशास्त्रविचक्षणाः । उर्वश्याद्यश्चाप्सरसो मां प्रशंसन्ति संततम्
दासिं कृत्वा च दास्यामि शचीं तुम्यं वरानने । त्रैलोक्यलक्ष्मी विपुलां गृहण त्यज गौतमम्