राजानं मोहितं मत्वा वेष्टितं विष्णुमायया । चक्रुः प्रतिज्ञां तं वोढुं कृपया दीनवत्सलाः
चक्रुः स्कनधे तच्छिविकां मुक्तामाणिक्यभूषिताम् । राजा ययौ सुवेषश्च रत्नभूषणभूषितः
दृष्ट्वा चातिविलम्बं च भर्त्सयामास तान्नृपः । क्रुधा शाशाप दुर्वासाश्चाग्रगामी च वर्त्मनि
महानजगनरो भूत्वा पत वै मूढमानस । दर्शनाद्धर्मपुत्रस्य तव मोक्षो भविष्यति
रत्नयानेन वैकुण्ठं गत्वा वैकुण्ठसेवनम् । करिष्यसि महाराज न कर्म निष्फलं भवेत्
इत्युक्त्वा प्रययुः सर्वे प्रहस्य मुनिसत्तमाः । राजा पपात तच्छापात्सर्पों भूत्वा महामुने
शची चगाम त्तच्छ्रृत्वा गुरुं नत्वाऽमरावतीम् । ययौ बृहस्पतिः शीघ्रं यत्रेन्द्रः पद्मतन्तुषु
गत्वा सनोवराम्याशमाजुहाव सुरेश्वरम् । अतिप्रसन्नवदनः कृपया च कृपानिधिः
बृहस्पतिरुवाच अयिवत्सत्वमागाच्छ भयं किं ते मयि स्थिते । त्यज भीतिमिहागच्छ गुरुस्तेहं बृहस्पतिः
स्वगुरोश्च स्वरं श्रुत्वा महेन्द्रो हृष्टमानसः । रूपं विहाय सूक्ष्मं च स्वरूपेण समाययौ
पपात दण्डवन्मूर्ध्ना भक्त्या चरणयोर्गुरोः । तं रुदन्तं महाभीतं मुदोरसि चकार सः
कारयित्वा सोमयागं प्रगयश्चित्ताथंमेव च । रत्नसिंहासने रम्ये वासयामास तं गुरुः
प्रददौ परमैश्वर्य पूर्वस्माच्च चतुर्गुणम् । आगत्य सर्वदेवाश्च चकुः सेवां मुदाऽन्विता
इत्येवं कथितं वत्स महेन्द्रदर्पभञ्जनम् । शचीसतीत्वरक्षा च किं भूयः श्रोतुमिच्छसि
नारद उवाच सोमयागविधानं च ब्रूहि मां मुनिसत्तम । कथं तं कारयामास गुरुश्च किं फलं परम्
नारायण उवाच ब्रह्महत्याप्रशमनं सोमयागफलं मुने । वर्ष सोमलतापानं यजमानः करोति च
वर्षमेकं फलं भुङक्ते वर्षमेकं जलं मुदा । त्रैवार्षिकं व्रतमिदं सर्वपापप्रणाशनम्
यस्य त्रैवाषिकं धान्यं निहितं भूतवृद्धये । अधिकं वाऽपि विद्येत स सोमं पातुमर्हति
महाराजश्च देपो वा यागं कर्तुमलं मुने । न सर्वमाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo शक्रदर्पभङ्गप्रकरणे शक्रमोक्षकथनं नाम षष्टितमोऽध्यायः
अथैकषष्टि,मोऽध्यायः नारायण उवाच इति ते कथितं किंचिदिन्द्रस्य दर्पभञ्जनम् । अपरं श्रूयतां ब्रह्मन्सावधानं निगूढकम्
समुद्रमथनं कृत्वा पीत्वाऽमृतरसं पुरा । निर्जित्य दैत्यसंघांश्च बहुदर्पो बभूव ह
तदा कृष्णो बलिद्वारा शक्रदर्प बभञ्ज ह । भ्रष्टश्रियो बभूवुस्ते देवा इन्द्रपुरोगमाः
तदा बृहस्पतेः स्तौत्राददितेश्च व्रतेन ते । जातश्च स्वांशकलयाऽप्यदित्यां वामनो विभुः
याच्ञां कृत्वा बलिं राज्यं कृपया च कृपानिधिः । तस्मै ददौ महेन्द्राय देवेम्यश्चापि संपदम्
बभूव शक्रदर्पश्च पुनः कल्पान्तने पुरा । विभुर्दुवसिसो द्वारा जहार तच्छ्रियं मुने
पुनर्ददौ च कृपया कृपालुर्भक्तवत्सलः । पुनः श्रीदुर्मदः सोऽपि जहार गौतमप्रियाम्
तदा गौतमशापेन भमाङ्गश्च बभूव सः । संप्राप यातनामिन्द्रः स्वाङ्गवेदनया पुरा
उच्चैस्तं जहसुर्दृष्ट्वा ऋषयो मनवस्तदा । देवाश्च लज्जिताः सर्वे मृततुल्यो बृहस्पतिः
तदा सहस्रवर्ष च तपस्तप्त्वा रवेः पुरा । रवेर्वरेण शक्रः स सहस्राक्षो बभूव ह