अहं करोमि मोक्षं च तव रक्षां सुनिश्चितम् । शासितुं रक्षितुं शक्तः स एव सुरुच्यते
न पश्यति सतीत्वं च हृच्छुद्धायाश्च योषितः । यन्मानसे विकल्पश्च तस्य धर्मश्च नश्यति
भविष्यति प्रभावस्ते दुर्गायाश्च समः सति । लक्ष्मीसमा प्रतिष्ठा च यशस्तद्यशसा समम्
सौभाग्यं राधिकातुल्यं तत्समं प्रेमभर्तरि । तत्तुल्यं गौरवं मान्यं प्रीतिः प्राधान्यमीश्वरे
रोहिण्याश्च समापेक्षा पूज्या च भारतीसमा । शुद्धा निरुपमा शश्वत्सावित्रीसदृशी सदा
एतस्मिन्नन्तरे तत्र आगतो नहृषाच्चरः । उवाच वचनं भीतो वाक्पतेर्गोंचरे ततः
दूत उवाच उत्तिष्ठ देवि शीघ्रं त्वं गच्छस्व नहुषं प्रति । क्रीडां कर्तु च रहसि रम्ये नन्दनकानने
दूतस्य वचनं श्रुतवा तमुवाच बृहस्पतिः । कम्पितावयवः कोपाद्रक्तपङ्कजलोचनः
गुरुरुवाच नहुषं वद गत्वा त्वं शचीं चे द्भोक्तुमिच्छसि । अपूर्व यानमारुह्य निशायामागमिष्यसि
सप्तर्षीणां च स्कन्धे च दत्वा स्वशिविकां शुभाम् । तामारुह्य सुवेषश्च गमनं कर्तुमर्हसि
वाक्पतेर्वचनं श्रुत्वा गत्वोवाच नृपं तदा । दूतस्य वचनं श्रुत्वा प्रहस्योवाच किंकरम्
गच्छ गच्छ त्वरन् गच्छ सप्तर्षीञ्छीघ्रमानय । उपायं च करिष्यामि तैः सार्धं साप्रतं चर
नृपस्य वचनं श्रुत्वा गत्वा दूतस्तदन्तिसम् । उवाच सर्वांस्तत्रैव यथोक्तं नहुषेण च
दूतस्य वचनं श्रुत्वा ययुः सप्तर्षयो मुदा । राजा दृष्ट्वा च तान्सर्वान्ननामोवाच सादरम्
नहुष उवाच यूयं च ब्रह्मणः पुत्रा ज्वलन्तो ब्रह्मतेजसा । ब्रह्मणः मदृशाः सर्वे सततं भक्तवत्सलाः
नारायणपराः शश्वच्छुद्धसत्तवस्वरूपिणः । मोहमात्सर्यहीनाश्च दर्पाहंकारवर्जिताः
नारायणसमाः सर्वे तेजसा यशसा सदा । गुणेन कृपया प्रेम्णा वरदानेन निश्चितम्
इत्युक्तवा प्रणतो राजा तुष्टाव च रुरोद च । दृष्टवा ते कातरं भूपमूचुः परहितैषिणः
ऋषय ऊचुः वरं पृणीष्व हे वत्स यत्ते मनसि वाञ्छितम् । सर्वं दातुं वयं शक्ता नासार्ध्य नश्च किंचन
इन्द्रत्वं वा मनुत्वं वा चिरायुर्वा ततः परम् । सप्तद्धीपेश्वरत्वं चाप्यतीव सुचिरं सुखम्
अथापि सर्वसिद्धित्वं सर्वैश्वर्य सुदुर्लभम् । मुक्तिं वा हरिभक्तिं वा तपसा या सुदुर्लभा
किमीप्सितं ते हे वत्स ब्रूहि नः सांप्रतं मुदा । सर्व तुम्यं प्रदायैव यास्यामस्तपसे मुदा
युगलक्षसमं यच्च क्षणं कृष्णार्चनं विना । तद्दिनं दुर्दिनं यत्तद्ध्यानसेवनवर्जितम्
विना तत्सेवनं यो हि विषयान्यं च वाञ्छति । विषमत्ति प्रणाशाय विहायामृतमीप्सितम्
ब्रह्मा शिवश्च धर्मश्च विष्णुश्चापि महान्विराट् । गणेशश्च दिनेशश्च शषेश्च सनकादयः
एते यच्चरणम्भोजं ध्यायन्तेऽहर्निशं मुदा । जन्ममृत्युजराव्याधिहरं तन्निरता वयम्
तेषां च वचनं श्रृत्वा तानुवाच नृपेश्वरः । स लज्जितो नम्रवक्त्र मायामोहितमानसः
नहष उवाच सर्व दातुं समर्थाश्च यूयं च भक्तवत्सलाः । अधुना देहि (दत्त) मे तूर्णं शचीदानमभीप्सितम्
सप्तर्षिवाहनं कान्तं शचीच्छति महासती । एतदेव मम वरं निष्पन्नं कुरुताचिनम्
नहुषस्य वचः श्रुत्वा मुनयश्च परस्परम् । मत्युच्चैर्जहसुः सर्वे कौतुकेन च नारद