शाश्वत्पिबति शान्तिश्च विष्णुभक्तिरसामृतम् । जन्ममृत्युजराव्याधिशोकसंतापनाशनम्
अथ षष्टितमोऽध्यायः नारायण उवाच शाचोस्तोत्रं समाकर्ण्य परितुष्टो बृहस्पतिः । उवाच मधुरं शान्तः कान्तामिन्द्रस्य नारद
बृहस्पतिरुवाच त्यज वत्से भयं सर्व भयं किं ते मयि स्थिते । यथा कचस्य पत्नी मे तथा त्वमपि शोभने
यथा पुत्रश्तथा शिष्यो न भेदः पुत्रशिष्ययोः । तर्पणे पितृदाने च पालने परितोषणो
यथाऽग्निदाता पुत्रश्च तथा शिष्यश्च निश्चितम् । इतीदं कण्वशाखायामुवाच कमलोद्भवः
पिता माता गुरुर्भार्या शिशुश्चानाथबान्धवाः । एते पुंसां नित्यपोष्या इत्याह कमलोद्भवः
यश्चैतांश्च न पुष्णाति भस्मान्तं तस्य सूतकम् । दैवे पित्र्ये न कर्मार्हः मोऽपीत्याह महेश्वरः
कुरुते नरबुर्द्धि च मातरं पितरं गुरुम् । अयशस्तस्य सर्वत्र विध्न एव पदे पदे
संपन्मत्तो यः करोति स्वगुरोश्च पराभवम् । अचिनात्सर्वनाशाश्च भवेत्तस्य सुनिश्चितम्
मां च दृष्टवा सभामध्ये नोत्तसथौ पाकशासनः । तत्फलं भुज्यते साक्षात्सद्यः पश्य च सांप्रतम्
अहं करोमि मोक्षं च तव रक्षां सुनिश्चितम् । शासितुं रक्षितुं शक्तः स एव सुरुच्यते
न पश्यति सतीत्वं च हृच्छुद्धायाश्च योषितः । यन्मानसे विकल्पश्च तस्य धर्मश्च नश्यति
भविष्यति प्रभावस्ते दुर्गायाश्च समः सति । लक्ष्मीसमा प्रतिष्ठा च यशस्तद्यशसा समम्
सौभाग्यं राधिकातुल्यं तत्समं प्रेमभर्तरि । तत्तुल्यं गौरवं मान्यं प्रीतिः प्राधान्यमीश्वरे
रोहिण्याश्च समापेक्षा पूज्या च भारतीसमा । शुद्धा निरुपमा शश्वत्सावित्रीसदृशी सदा
एतस्मिन्नन्तरे तत्र आगतो नहृषाच्चरः । उवाच वचनं भीतो वाक्पतेर्गोंचरे ततः
दूत उवाच उत्तिष्ठ देवि शीघ्रं त्वं गच्छस्व नहुषं प्रति । क्रीडां कर्तु च रहसि रम्ये नन्दनकानने
दूतस्य वचनं श्रुतवा तमुवाच बृहस्पतिः । कम्पितावयवः कोपाद्रक्तपङ्कजलोचनः
गुरुरुवाच नहुषं वद गत्वा त्वं शचीं चे द्भोक्तुमिच्छसि । अपूर्व यानमारुह्य निशायामागमिष्यसि
सप्तर्षीणां च स्कन्धे च दत्वा स्वशिविकां शुभाम् । तामारुह्य सुवेषश्च गमनं कर्तुमर्हसि
वाक्पतेर्वचनं श्रुत्वा गत्वोवाच नृपं तदा । दूतस्य वचनं श्रुत्वा प्रहस्योवाच किंकरम्
गच्छ गच्छ त्वरन् गच्छ सप्तर्षीञ्छीघ्रमानय । उपायं च करिष्यामि तैः सार्धं साप्रतं चर
नृपस्य वचनं श्रुत्वा गत्वा दूतस्तदन्तिसम् । उवाच सर्वांस्तत्रैव यथोक्तं नहुषेण च
दूतस्य वचनं श्रुत्वा ययुः सप्तर्षयो मुदा । राजा दृष्ट्वा च तान्सर्वान्ननामोवाच सादरम्
नहुष उवाच यूयं च ब्रह्मणः पुत्रा ज्वलन्तो ब्रह्मतेजसा । ब्रह्मणः मदृशाः सर्वे सततं भक्तवत्सलाः
नारायणपराः शश्वच्छुद्धसत्तवस्वरूपिणः । मोहमात्सर्यहीनाश्च दर्पाहंकारवर्जिताः
नारायणसमाः सर्वे तेजसा यशसा सदा । गुणेन कृपया प्रेम्णा वरदानेन निश्चितम्
इत्युक्तवा प्रणतो राजा तुष्टाव च रुरोद च । दृष्टवा ते कातरं भूपमूचुः परहितैषिणः
ऋषय ऊचुः वरं पृणीष्व हे वत्स यत्ते मनसि वाञ्छितम् । सर्वं दातुं वयं शक्ता नासार्ध्य नश्च किंचन
इन्द्रत्वं वा मनुत्वं वा चिरायुर्वा ततः परम् । सप्तद्धीपेश्वरत्वं चाप्यतीव सुचिरं सुखम्