मन्त्राद्युद्गिरणेनैव गुरुरित्युच्यते बुधैः । अन्यो वन्द्यो गुरुरयमन्यश्चारोपितो गुरुः
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
अदीक्षितस्य मूर्खस्य निष्कृतिर्नास्ति नि श्चितम् । सर्वकर्मस्वनर्हस्य नरके तत्पशोः स्थितिः
जन्मदाताऽन्नदाता च माताऽन्ये गुरवास्तथा । पारं कर्तुं न शक्तास्ते घोरसंसारसागरे
विद्यामन्त्रज्ञानदाता निपुणः पारकर्मणि । स शक्तः शिष्यमुद्धर्तुमीश्वरश्चेश्वरात्परः
गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः । गुरुर्धर्मो गुरुः शेषः सर्वात्मा निर्गुणो गुरुः
सर्वतीर्थाश्रयश्चैव कर्वदेवाश्रयो गुरुः । सर्ववेदस्वरुपश्च गुरुरूपी हरिः स्वयम्
अभीष्टदेवे रुष्टे च गुरुःशक्तो हि रक्षितुम् । गुरौ रुष्टेऽभीष्टदेवो न हि शक्तश्च रक्षितुम्
सर्वे ग्रहाश्च यं रुष्टा यं रुष्टा देवब्राह्मणाः । त्वमेव रुष्टो भवसि गुरुरेव हि देवताः
न गुरोश्च प्रियश्चाऽऽत्मा न गुरोश्च प्रियः सुतः । धनं प्रियं च न गुरोर्न च भार्या प्रिया तथा
न गुरोश्च प्रियो धर्मो न गुरोश्च प्रियं तपः । न गुरोश्च प्रियं सत्यं न पुण्यं च गुरोः परम्
गुरोः परो न शास्ता च न हि बन्धुर्गुरोः परः । देवो राजा च शास्ता च शिष्याणां च सदा गुरुः
यावच्छक्तो दातुमन्नं तावच्छास्ता तदन्नदः । गुरुः शास्ता च शिष्याणां प्रतिजन्मनि जन्मनि
मन्त्रो विद्या गुरुर्देवः पूर्वलब्धो यथा पतिः । प्रतिजन्मनि बन्धेन सर्वेषामुपरि स्थितः
पिता गुरुश्च वन्द्यश्च यत्र जन्मनि जन्मदः । गुरवोऽन्ये तथा माता गुरुश्च प्रतिजन्मनि
विप्राणां त्वं वरिष्ठश्च गरिष्ठश्च तपस्तिनाम् । ब्रह्मिष्ठौ ब्रह्मविद्ब्रह्मविद्ब्रह्मन् धर्मिष्ठः सर्वधर्मिणाम्
तुष्टो भव मुनिश्रेष्ठ मां च शक्रं च संप्रतम् । त्वयि तुष्टे सदा तुष्टा भवन्ति ग्रहदेवताः
इत्युक्त्वा का शची ब्रह्मन्पुनरुच्चौ रुरोद ह । दृष्ट्वा तद्रोदनं तारा रुरोदोच्चैर्मुहुर्मुहुः
पपात चरणे तारा रुरोद च पुनः पुनः । अपराधं क्षमेत्युक्त्वा गुरुस्तुष्टोऽप्युवाच ताम्
गुरुरुवाच उत्तिष्ठ तारे शच्याश्च सर्व भद्रं भविष्यति । सद्यः प्राप्स्यति भर्तारं महेन्द्रं च मदाशिषा
इत्युक्त्वा स गुरुस्तत्र विरराम च नारद । पपात चरणे तारा पुनरेव रुरोद च
गुहीत्वा च शचीं तारा संस्थाप्य च स्ववक्षकि । बोधयामास विविधमाध्यात्मिकमनुत्तमम्
शचीकृतं गुरुस्तोत्रं पूजाकाले च यः पठेत् । गुरुश्चाभीष्टदेवश्च संतुष्टः प्रतिजन्मनि
ग्रहदेवद्विजास्तं च परितुष्टाश्च संततम् । राजानो बान्धवाश्चैव संतुष्टाः सर्वतः सदा
गुरुभक्तिं विष्णुभक्तिं वाञ्छितं लभते ध्रुवम् । सदा हर्षो भवेत्तस्य न च शोकः कदाचन
पुत्रार्थो लभते पुत्रं भार्यार्थो लभते प्रियम् । सुस्वरुपां गुणवतीं सतीं पुत्रवतीं ध्रुवम्
रोगार्तों मुच्यते रोगाद्बद्धो मुच्योत बन्धनात् । अस्पष्टकीर्तिः सुयशा मूर्खोभवति पण्डितः
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य निश्चितम् । नित्यं तद्वर्धते धर्मों विपुलं निर्मलं यशः
लभते परमैश्वर्यं पुत्रपौत्रधनान्वितम् । इह सर्वसुखं भुक्त्वा प्राप्यते श्रीहरेः पदम्
न भवेत्तत्पुनर्जन्म हरिदास्यं लभेद्ध्रुवम् । विष्णुभक्तिनमाब्धौ च निमग्नश्च भवेद्ध्रुवम्