स पुमान्न रि कर्मार्हों दैवे पित्र्ये च कर्मणि । अधमः स च सर्वेषां निन्दितश्च यशस्करः
द्वितीये दिवसे नारीं यो व्रजेच्च रजस्वलाम् । कामतः परिपूर्णाञ्च गोहत्यां लभते ध्रुवम्
आजीवनं नाधिकारी पितृविप्रसुरार्चने । अमनुष्योऽयशस्यः स्यादित्याङ्गिरसभाषितम्
दृतीये दिवसे जायां यो हि गच्छेद्रजस्वलाम् । स मूढो भ्रूणहत्यां च लभते नात्र संशयाः
पूर्ववत्पतितः सोऽपि न चार्हः सर्वकर्मसु । असच्छूद्रा चतुर्थेऽह्नि न गच्छेत्तां विचक्षणः
ऋतावतीते दिवसे गमनं च करिष्यसि । शच्याश्च वचनं श्रुत्वा प्रहस्य नहुषस्तया
उवाच मधुरं शान्तः शक्रकान्तां च सुव्रताम् । देवपत्नी सदा शुद्धा तन्न्यूनं मानवं प्रति
शयने भोजने देवी नाशुद्धा मानवं प्रति । रजस्वलायाः संभोगे कर्मक्षेत्रे च भारते
त्वयोक्तं च भवेत्पा पं नात्र दु (स्व)र्गे च सुन्दरि । कर्मक्षेत्रेऽपि तत्कर्म यद्वेदोक्तं शुभाशुभम्
न भवेद्वैष्णवानां च ज्वलतां ब्रह्मतेजसा । यथा प्रदीप्ते वह्नौ च शुष्काणि च तृणानि च
भवन्ति भस्मीभूतानि तथा पापानि वैष्णपे । वह्निसूर्यब्राह्मणेभ्यस्तेजयान्वैष्णपः सदा
रक्षितो विष्णुचक्रेण स्वतन्त्रो मत्तकुंजरः । न विचारो न भोगश्च पैष्मवानां स्वकर्मणाम्
निखितं साम्नि कौथुम्यां कुरु प्रश्नं बृहस्पतीम् । अस्मांश्च सर्वे जानन्ति चन्द्रवंश्यांश्च वैष्णवान्
देवमन्यं न सेवन्ते चन्द्रवंश्या हरिं विना । सद्वंशप्रभवो यो हि ब्रह्मणः क्षत्रियोऽथवा
विष्णुमन्त्रं न गृण्हाति वञ्चितो देवमायया । को वा मन्त्रश्च के देवा न हि शास्ता यमो मम
सर्वाञ्छास्तुं समर्थोऽहं ब्रह्मविष्णुशिवान्विना । शय्यां कृरु गुहं गत्वा शीघ्रं यास्यामि ते गृहम्
ऋतुपापं मयि भवेत्तव किं गच्छ शोभने । इत्युक्त्वा नहुषो राजा प्रफुल्लवदनेक्षणः
रत्नयानं समारुह्य ययौ नन्दनकाननम् । न ययौ सा शची गेहं प्रजगाम गुरोर्गृहम्
गत्व कूशासनस्यं च ददर्श च बृहस्पतिम् । तारासेवितपादाब्जं ज्वलन्तं ब्रह्मतेजसा
जपमालाकरं शश्वज्जपन्तं कृष्णमीप्सितम् । परमं परमानन्दं परमात्मानमीश्वरम्
निर्गुणं च निरीहं च स्वतन्त्रं प्रकृतेः परम् । स्वेच्छामयं परं ब्रह्म भक्तानुग्रहविग्रहम्
तमानन्दाश्रुनेत्रं च ननाम शिनका भुवि । रुदती साश्रुनेत्रा का मज्जन्ती भक्तिसागरे
शोकार्णवे निमज्जन्ती हृदयेन विदूयता । तुष्टाव भीता स्वगुरुं ब्रह्मिष्ठं च कृपानिधिम्
शच्युवाच रक्ष रक्ष महाभाग मां भीतां शरणागताम् । त्वमीश्वरः स्वदासीं च निमग्नां शोकसागरे
अनीश्वरश्चेश्वरो वा बरवान्वा सुदुर्बलः । स्वशिष्यभार्यां पुत्रांश्च शासितुं च सदा क्षमः
दूरीभूतः स्वराज्याच्च स्वशिष्यश्च कृतस्त्वया । शान्तिर्बभूव दोषस्य चाधुनाऽनुग्रहं कुरु
अनाथां सर्वशून्यां मां शुन्यां ताममरावतीम् । संपच्छून्यमाश्रमं मे पश्य रक्ष कृणानिधे
दस्युग्रस्तां च मां रक्ष देशं किंकरमानय । दत्तवा चरणरेणूंस्तं शुभाशीर्वचनं कुरु
सर्वेषां च सुरुणां च जन्मदाता परो गुरुः । पितुः शतगुणा माता पूज्या वन्द्या गरीयसी
विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः । पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणो गुरुः