त्यज द्वैधं च मनसो निश्चितं वरवर्णिरि । वरानने मया सार्धं मोदस्व वरमन्दिरे
अमूल्यरत्नमालां च मणिराजविराजिताम् । भिक्षां कृत्वा च दास्यामि लक्ष्मीवक्षसि शोभिताम्
मणिं चानन्तशिरसः सर्वेषामतिदुर्लभम् । दुष्प्राप्यं त्रिषुलोकेषु तुभ्यं दास्यामि सुन्दरि
मणिरत्नं कौस्तुभं च यो नारायणवक्षसि । भिक्षां कृत्वा तु दास्यामि कृत्वा नारायणव्रतम्
चन्द्रशेखरमौलेश्च यदर्धं चन्द्रभूषणम् । जरामृत्युव्याधिहरं शक्तं क्रीडाकरं वरम्
अतीव विश्वदुष्प्राप्यं विश्ववन्द्यं च सुन्दरम् । विश्वनाथव्रतं कृत्वा तुभ्यं दास्यामि निश्चितम्
दास्यामि ते श्रीसूर्यस्य मणिश्रेष्ठं स्यमन्तकम् । भक्त्या सूर्यव्रतं कृत्वा त्रिषु लोकेषु दुर्लभम्
अष्टौ भारान्सुवर्णं च यश्च नित्यं प्रसूयते । जरासृत्युहरं चव परं क्रीडाकरं प्रिये
अमूल्यरत्ननिर्माणं पात्ररत्नं मनोहरम् । संततं मधृपूर्णं च दास्यामि मदनस्य च
अमूल्यरत्ननिर्माणं सुर्यतुल्यं च तेजसा । नानचित्रविचित्राढ्यं निर्माणमीश्वरेच्छया
निर्मलं मण्डलाकारं सणिराजविराजितम् । हस्तलक्षपरिमितं चतुरस्रं च सुन्दरि
पद्मापद्मासनं श्रेष्ठं प्रेष्ठं तस्या सुदुर्लभम् । ध्रुवं तुम्यं प्रदास्यामि कृत्वा पद्मालयाव्रतम्
इत्येवमुक्त्वा नहुषः कृत्वा वर्त्मनिरौधनम् । पुनः पपात चरणे महेन्द्राण्या मुहुर्मुहुः
नृपस्य वचनं श्रुत्वा शुष्ककण्ठौष्ठतालुका । तमुवाच महेन्द्राणी स्मारं स्मारं गुरुं हरिम्
शच्युवाच अचेतनस्य मूढस्य कार्याकार्यमजानतः । श्रोष्याम्यद्य कतिविधां कथां कामातुरस्य च
मधुमत्तः सुरासत्तः काममत्तो दिचेतनः । मृत्युं न गणचेत्कामी कामेन हृतमानसः
त्यज मामध हे मत्त मातृतुल्यां रजक्वलाम् । ऋतोः प्रथामो दिवसो ह्यद्य हे नृप मे ध्रुवम्
प्रथमे दिवसे स्त्री च चाण्डाली सा रजस्वला । द्वितीये दिवसे म्लेच्छा तृतीये रजकी तथा
शुद्धा भर्तुश्चतुर्येऽह्नि न शुद्धा दैवपै ययौः । असच्छूद्रासमा सा च तद्दिने च परं प्रति
प्रथमे दिवसे कान्तां यो हि गच्छेद्रजस्वलाम् । ब्रह्महत्याचतुर्थाशं लभते नात्र संशयः
स पुमान्न रि कर्मार्हों दैवे पित्र्ये च कर्मणि । अधमः स च सर्वेषां निन्दितश्च यशस्करः
द्वितीये दिवसे नारीं यो व्रजेच्च रजस्वलाम् । कामतः परिपूर्णाञ्च गोहत्यां लभते ध्रुवम्
आजीवनं नाधिकारी पितृविप्रसुरार्चने । अमनुष्योऽयशस्यः स्यादित्याङ्गिरसभाषितम्
दृतीये दिवसे जायां यो हि गच्छेद्रजस्वलाम् । स मूढो भ्रूणहत्यां च लभते नात्र संशयाः
पूर्ववत्पतितः सोऽपि न चार्हः सर्वकर्मसु । असच्छूद्रा चतुर्थेऽह्नि न गच्छेत्तां विचक्षणः
ऋतावतीते दिवसे गमनं च करिष्यसि । शच्याश्च वचनं श्रुत्वा प्रहस्य नहुषस्तया
उवाच मधुरं शान्तः शक्रकान्तां च सुव्रताम् । देवपत्नी सदा शुद्धा तन्न्यूनं मानवं प्रति
शयने भोजने देवी नाशुद्धा मानवं प्रति । रजस्वलायाः संभोगे कर्मक्षेत्रे च भारते
त्वयोक्तं च भवेत्पा पं नात्र दु (स्व)र्गे च सुन्दरि । कर्मक्षेत्रेऽपि तत्कर्म यद्वेदोक्तं शुभाशुभम्
न भवेद्वैष्णवानां च ज्वलतां ब्रह्मतेजसा । यथा प्रदीप्ते वह्नौ च शुष्काणि च तृणानि च