इति धर्मः क्षत्रियाणां कथितो ब्रह्मणा पुरा । वाणिज्यं चैव वैश्यानां स्वधर्मो धर्मसंचयः
शूद्राणां विप्रसेवा च परो धर्में विधीयते । सर्वन्यासो हरौ भूव धर्मः संन्यासिनां ध्रुवम्
रक्तैकवासा दण्डी च बिभर्ति मृत्कमण्डलुम् । सर्वत्र समदर्शो च स्मरेन्नानायणं सदा
करोति भ्रमणं नित्यं गेहे गेहे न तिष्ठति । विद्यामन्त्रं च कस्मैचिन्न ददाति च लोभतः
करोति नाऽऽश्रमं भिक्षुः करोति नान्यवासनाम् । करोति नान्यसङ्गं च निर्मोह सङ्गवर्जितः
न स्वादुभुङ्क्ते लोभाच्चा स्त्रीमुखं न हि पश्यति । न वाञ्छितं भक्ष्यवस्तु याचते गुहिणां व्रती
इति संन्यासिनां धर्म इत्याह कमलोद्भवः । इति ते कथितं पुत्र गच्छ वत्स यथासुखम्
इत्युक्त्वा च महेन्द्राणी विरराम च वर्त्मनि । उवाच नहुषो राजा शचीं वक्रप्रकंधरः
नहुष उवाच त्वया यत्कथितं देवी सर्व ततु विपर्ययम् । यथार्थधर्मं वेदोक्तं निबोध कथायामि ते
कर्मणां फलभोगश्च सर्वेषां सुरसुन्दरि । नैव स्वर्गे न पाताले नान्यद्वीपे श्रुतौ श्रुतम्
कृत्वा शुभाशुभं कर्म पुण्यक्षेत्रे च भारते । अन्यत्र तत्फलं भुङ्क्ते कर्मी कर्मनिबन्धनात्
हिमालयादासमुद्रं पुण्यक्षेत्रं च भारतम् । श्रेष्ठं सर्वस्थलानां च मुनीनां च तपःस्थलम्
तत्र लब्ध्वा जन्म जीवी वञ्चितो विष्णुमायया । शश्वत्करोति विषयं विहाय सेवनं हरेः
कृत्वा तत्र महत्पुण्यं स्वर्ग गच्छति पुण्यवान् । गृहीत्वा सर्वकन्याश्च चिरं स्वर्गे प्रमोदते
स्वर्गमागच्छति नरो विहाय मानवीं तनुम् । स्वशरीरेणाऽऽगतोऽहं मत्पुण्यं पश्य सुन्दरि
अनेकजन्मपुण्येन चाऽऽगतः स्वर्गमीप्सितम् । ततः किं केन पुण्येन दर्शनं मे त्वया सह
न हि कर्मस्थलमिदं स्वभोगस्थलमेव च । सारं च सर्वभोगानां वरस्त्रीभोगमेव च
भोगस्थले भोगवस्तु न हि त्यक्तुं प्रशस्यते । भावानुरक्ता रसिका भोग्या त्वं भोगिनामिह
द्रव्यमस्वामिकं भोग्यं सुखं त्यजति सन्दधीः । अविरोधसुखत्यागी पशुरेव न संशयः
गच्छ कान्ते गुहं गत्वा कुरु तल्पं मनोहरम् । रमणीयं च रहसि वरं रतिकरं परम्
त्यज द्वैधं च मनसो निश्चितं वरवर्णिरि । वरानने मया सार्धं मोदस्व वरमन्दिरे
अमूल्यरत्नमालां च मणिराजविराजिताम् । भिक्षां कृत्वा च दास्यामि लक्ष्मीवक्षसि शोभिताम्
मणिं चानन्तशिरसः सर्वेषामतिदुर्लभम् । दुष्प्राप्यं त्रिषुलोकेषु तुभ्यं दास्यामि सुन्दरि
मणिरत्नं कौस्तुभं च यो नारायणवक्षसि । भिक्षां कृत्वा तु दास्यामि कृत्वा नारायणव्रतम्
चन्द्रशेखरमौलेश्च यदर्धं चन्द्रभूषणम् । जरामृत्युव्याधिहरं शक्तं क्रीडाकरं वरम्
अतीव विश्वदुष्प्राप्यं विश्ववन्द्यं च सुन्दरम् । विश्वनाथव्रतं कृत्वा तुभ्यं दास्यामि निश्चितम्
दास्यामि ते श्रीसूर्यस्य मणिश्रेष्ठं स्यमन्तकम् । भक्त्या सूर्यव्रतं कृत्वा त्रिषु लोकेषु दुर्लभम्
अष्टौ भारान्सुवर्णं च यश्च नित्यं प्रसूयते । जरासृत्युहरं चव परं क्रीडाकरं प्रिये
अमूल्यरत्ननिर्माणं पात्ररत्नं मनोहरम् । संततं मधृपूर्णं च दास्यामि मदनस्य च
अमूल्यरत्ननिर्माणं सुर्यतुल्यं च तेजसा । नानचित्रविचित्राढ्यं निर्माणमीश्वरेच्छया