निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति
साधुः सद्वंशजां कन्यां प्रयत्नेन परिग्रहेत्
वरं हुतवहे वासः सर्पवक्त्रे च कण्टके
मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम्
वत्स त्वं कुलजातां च पूर्वपत्नी च मालतीम्
मनुवंशोद्भवस्येह सृंजयस्य गृहे सती
गृह्णीष्व परमां रत्नमालां च कमलाकलाम्
आदौ भवेद्गृही लोको वानप्रस्थस्ततः परम् 1.24.
वैष्णवानां हरेरर्चा तपस्या च श्रुतौ श्रुता
वैष्णव त्वं गृहे तिष्ठ कुरु कृष्णपदार्चनम्
नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसाऽनघ
यत्र तत्र कृतं कृष्णसेवनं परमं तपः
गृही भव मुनिश्रेष्ठ गृहिणां सर्वदा सुखम्
तद्दर्शनमुपस्पर्शं वाञ्छन्त्येव मुमुक्षवः
ततः सुखतमं पुत्रदर्शनं स्पर्शनं मुने
पुत्रप्रयोजना कान्ता शतकान्ताप्रियः सुतः
सर्वेभ्यो जयमन्विच्छेत्पुत्रादेकात्पराजयम्
अतः प्रियतमे पुत्रे न्यसेदात्मपरं धनम् उवाच वचनं तातं नारदो ज्ञानिनां वरः ।। 1.24.
नारद उवाच प्रवर्त्तयत्यसन्मार्गे स दयालुः कथं पिता
जलबुद्बुदवत्सर्वं संसारमतिनश्वरम्
विहाय हरिदास्यं च विषये यन्मनश्चलम्
का वा कस्य प्रिया पुत्रो बन्धुः को वा भवार्णवे
सुकर्म कारयेद्यो हि तन्मित्रं स पिता गुरुः
इत्येवं कथितं तात वेदबीजं यथागमम्
आदौ यास्यामि भगवन्नरनारायणाश्रमम्
इत्येवमुक्त्वा स मुनिर्विरराम पितुः पुरः
क्षणं पितुः पुरः स्थित्वा नारदो मुनिसत्तमः
श्रीनारद उवाच तत्सम्बन्धि च यज्ज्ञानं यत्र तद्गुणवर्णनम्।। 1.24.
ततः पश्चात्करिष्यामि त्वत्प्रीत्या दारसंग्रहम्
नारदस्य वचः श्रुत्वा प्रहृष्टः कमलोद्भवः