पित्रोः स्वसा शिष्यपत्नी भृत्यपली च मातुली । पितृपत्नी भ्रातृपत्नी श्वश्रूश्च भगिनी सुता
गर्भधात्रीष्टदेवी च पुंसः षोडश मातरः । त्वं नरो देवभार्याऽहं माता ते देवसंमता
गच्छ वत्सादितिं रन्तुं यदि चेच्छसि मातरम् । सर्वेषां निष्कृतिश्चास्तिन वत्स मातृगामिनाम्
कुम्भीपाके ने पचन्ति यावद्वै ब्रह्मणो वयः । ततो भवन्ति कृमयः कल्पाः स्पत भवन्ति ते
ततश्च कुष्ठिनो म्लेच्छा भवन्ति सप्तजन्मसु । नास्तयेव निष्कृतिस्तेषामित्याह कमलोद्भवः
एवं विट्क्षत्त्रशूद्राणां ब्रह्मणीगमने नृप । वैदेषु निष्कृतिर्नास्ति चेत्याङ्गिरसभाषितम्
स्वर्गसंपत्तिभोगश्च सुखं संसारिणां ध्रुवम् । मुमुक्षूणां च मोक्षण्च तपश्चैव तवस्विनाम्
ब्राह्मणानां च ब्रह्मण्यं मुनीनां मौनमेव च । वेदाभ्यासो वैदिकानां कवीनां काव्यवर्णनम्
विष्णुदास्यं वैष्णवानां विष्णुभक्तिरसं परम् । विष्णुभक्तिं विना नैव मुक्तिं वाञ्छन्ति वैष्णवाः
मलाढचेषु च क्लेदेषु दुर्गन्धिनिलयेषु च । साधूनां किं सुकं साधो स्त्रीणां योनिषु मां वद
कुलप्रदीब राजेन्द्र राज्ञं मण्डलवर्तिनाम् । लब्धं च भारते जन्म पुण्येन बहुजन्मनाम्
पद्मानां चन्द्रवंश्यानां नृपाणां दीप्तिहेतवे । त्वमाविरासीस्तेजस्वी ग्रूष्ममध्याह्नभास्करः
सर्वेषामश्रमाणां च स्वधर्मश्च यशः परम् । स्वधर्महीना नरके पतन्ति मूढयेतसः
ब्राह्मणस्या स्वधर्मश्च त्रिसंध्यमर्चनं हरेः । तत्पादोदकनैवेद्यभक्षणं च सुधाधिकम्
अन्नं विष्ठा जलं मूत्रमनिवेद्य हरेर्नृप । भवन्ति सूकराःसर्वे ब्राह्मणा यदिभुञ्जते
आजीवं भुञ्जते विप्रा एकादश्यां न भुञ्जते । कृष्णजन्मदिने चैव शिवरात्रौ सुनिश्चेतम्
तथा रामनवभ्यां च यत्नतः पुण्यवासरे । ब्राह्मणानां स्वधर्मश्च कथितो ब्रह्मणा नृप
व्रतं पतिव्रतानां च पतिसेवा परं तपः । यथा पुत्रः परपतिरेष धर्मश्च योषिताम्
पालयन्ति यथा भूपाः प्रजाः पुत्रानिवौरसान् । प्रजास्त्रियं च पश्यन्ति राजानो मातरं यथा
यज्ञं कुर्वन्ति विष्णोश्च सेवनं देवविप्रयोः । निवारणं च दुष्टानां शिष्टानां प्रतिपालनम्
इति धर्मः क्षत्रियाणां कथितो ब्रह्मणा पुरा । वाणिज्यं चैव वैश्यानां स्वधर्मो धर्मसंचयः
शूद्राणां विप्रसेवा च परो धर्में विधीयते । सर्वन्यासो हरौ भूव धर्मः संन्यासिनां ध्रुवम्
रक्तैकवासा दण्डी च बिभर्ति मृत्कमण्डलुम् । सर्वत्र समदर्शो च स्मरेन्नानायणं सदा
करोति भ्रमणं नित्यं गेहे गेहे न तिष्ठति । विद्यामन्त्रं च कस्मैचिन्न ददाति च लोभतः
करोति नाऽऽश्रमं भिक्षुः करोति नान्यवासनाम् । करोति नान्यसङ्गं च निर्मोह सङ्गवर्जितः
न स्वादुभुङ्क्ते लोभाच्चा स्त्रीमुखं न हि पश्यति । न वाञ्छितं भक्ष्यवस्तु याचते गुहिणां व्रती
इति संन्यासिनां धर्म इत्याह कमलोद्भवः । इति ते कथितं पुत्र गच्छ वत्स यथासुखम्
इत्युक्त्वा च महेन्द्राणी विरराम च वर्त्मनि । उवाच नहुषो राजा शचीं वक्रप्रकंधरः
नहुष उवाच त्वया यत्कथितं देवी सर्व ततु विपर्ययम् । यथार्थधर्मं वेदोक्तं निबोध कथायामि ते
कर्मणां फलभोगश्च सर्वेषां सुरसुन्दरि । नैव स्वर्गे न पाताले नान्यद्वीपे श्रुतौ श्रुतम्