लीलया च सहस्रेन्द्राञ्छेतुं शक्तोऽहमीश्वरः । नारी वाञ्छति जारं च स्वामिनो बलवत्तरम्
सुमेरुगिरिकूटे च दुर्गमेति रहःस्यले । अथवा मलये रम्ये रम्ये चन्दनवायुना
विश्रम्भके सुरसने किंवा नन्दनकानने । निकटे शतश्रृङ्गस्य पुष्पभद्रानदीतटे
गोदावरीतीरनीरे समीपे शीतवायुना । चम्पावतीनदीतीरे रम्ये चम्पककानने
श्मशानेऽतिश्मशाने च रम्येऽतिनिर्जने वने । शैले शैलेऽतिरहसि कंदरे कंदरे वने
द्वीपे द्वीपे दुर्गदुर्गै नद्यां नद्यां नदे नदे । समुद्रपुलिने रम्ये सर्वजन्तुविवर्जिते
विदग्धाया विदग्धेन संगमो निर्जने सुखः । पुष्पचन्दनशय्यायां पुष्पचन्दनचर्चिते
मां गृहीत्वी कुरु रतिं पुष्पचन्दनचर्चितम् । ब्रह्मणश्च वरैर्देवि जरामृत्युविवर्जितम्
मां कुरुष्व पतिं भद्रे नित्यं सुस्थिरयौवनम् । सुवेषं सुन्दरं धीरं कामशास्त्रविशारदम्
शरत्पार्वणचन्द्रास्यं चन्द्रवंशसमुद्भवम् । आगतामृर्वशीं मह्यां त्यक्तवन्तं च याचातीम्
न मेस्पृहा परस्त्रीषु त्वां दृष्ट्वा लोलुपं मनः । त्यक्ता मया स्वभायश्चि रत्नभूषणभूषिताः
अथावा रक्षिताःसर्वा दासीः कृत्वा वहानने । रत्नेन्द्रसारां मालां ते दास्यामि वरुणस्य च
निर्जित्य वरुणं युद्धे ब्रह्मस्त्रेणातितेजसा । वह्निशुद्धंवस्त्रयुगं जित्वा वह्निं सुदुर्बलम्
दास्याम्यद्यैव ते देवि नियोज्यं मां नियोज्य । मणीन्द्रसारनिर्माणमकानाकानकुण्डले
दास्यामि देवान्निर्जित्य देवमातुश्च सुन्दरि । करभूषणयुग्मं चात्यमूल्यरत्ननिर्मितम्
दास्याम्यद्यैव रोहिण्याश्चन्द्रं जित्वाऽतिदुर्लमम् । यक्ष्मग्रस्तमतिकृशं ममैव पूर्वपूरुषम्
विना युद्धेन भीतो मां कृपया वा प्रदास्यति । अमूल्यरत्ननिर्माणं क्तणन्मञ्जीरयुग्मकम्
दास्याम्यद्यैव पार्वत्या भिक्षां कृत्वा महेश्वरम् । आशुतोषं स्तुतिवशं भक्तेशं चे कृबामयम्
सर्वसंपत्तिदातारं परं कल्पतरुं शुभे । अमूल्यरत्ननिर्माणकेयूरयुगुलं प्रिये
दास्यामि तेऽद्य गङ्गाया युद्धं कृत्वा सुदुर्लभम् । बहुलीयुगुलं चारु सूर्यपत्न्या मनोहरम्
सद्रत्नसारनिर्माणं दास्याम्यद्य सुशोभने । अमूल्यरत्ननिर्माणं दर्पणां चातिनिर्मलम्
दास्यामि ते कामपत्न्याः कामं जित्वा च लीलया । क्रीडाकमलमम्लानं कमलायाश्च सुन्दरि
भिक्षां कृत्वा च दास्यामि स्तुत्वा च कमलापतिम् । अङ्गुलीयकरत्नानि विश्वेषु दुर्लभानि च
सावित्र्याश्च प्रदास्यामि कृत्वा च ब्रह्मणस्तपः । स्वयं गीतं प्रगायन्तीं मूर्च्छनाश्रुतिसंयुताम्
वाणीवीणां प्रदास्यामि कृत्वा नारायणव्रतम् । रत्नपाशकसंधं च विश्वकर्मविनिर्मितम्
कुबेरपत्न्या दास्यामि पादाङ्गुलिविभूषणम । इत्येवमुक्त्वा नहुषः पपात तत्पदाम्बुजे
उवाच तं शची त्रस्ता राजमार्गगतं नृपम् । उत्थाप्य तं करे धूत्वा शुष्ककण्ठोष्ठतालुका
शच्युवाच शृणु वत्स महाराज हे तात भयभञ्जन
भयत्राता च राजा च सर्वेषां पालकः पिता । भ्रष्टश्रीश्च महेन्द्रोऽद्य त्वं च स्वर्गे नृपोऽधुना
यो राजा स पिता पाता प्रजानामेव निश्चितम् । गुरुपत्नी राजपत्नी देवपत्नी तथा वधूः