यथा गोपाश्च गोप्यश्च गावो वृन्दावने वने । वने वने का वन्यास्ते वन्या जानन्ति किंचन
वनं रम्यं वन्यपदमपि त्यक्तवा वने वने । श्मशाने वाऽश्मशाने वा बभ्राम भामिनी मुने
ग्रमं त्यक्त्वा च बभ्रम चेतनाऽचेतना क्षणम् । क्षणेन वर्जिता सा च प्रार्थयान्ती प्रतिक्षणम्
क्षणं क्षणं सा श्वसिति चिन्तनं कुर्वती क्षणम् । क्षणं विशन्ती तल्पे च क्षणम्त्थाय तिष्ठति
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo अष्टप़ञ्चाशत्तमोऽध्यायः
अथैकोनषष्टितमोऽध्यायः नारायण उवाच इत्येवं कथितं सर्व सर्वेषां दर्पभञ्जनम् । इन्द्रस्य दर्पभङ्गं च विस्तरेण निशामज
इन्दो दर्पात्सभायां च रत्नसिंहासनाद्वरात् । नोत्तस्यौ स्वगुरुं दृष्ट्वा ब्रह्मिष्ठं च बृहस्पतिम्
गुरुर्जगामातिरुष्टः स्वापमाने समत्मरः । तथापि कृपया धर्मे स्नेहाच्च न शशाप तम्
विना शपेन तद्दर्वश्चूर्णीभूतो बभूव ह । अन्यश्चेन्न शपेद्धर्मात्प्रेम्णा वा चातिकिल्विषम्
त्थाऽपि तं च फलति धर्मस्तं हन्ति नारद । यो यं हिंस्रं सापराधं शपेत्कोपेने धार्मिकः
विनाशः सापराधस्य धर्मो नष्टश्च धर्मिणः । तेनाधर्मेण शक्रस्य ब्रह्महत्या बभूव ह
भीतस्त्यक्त्वा स्वराज्यं च प्रययौ सरोवरम् । सरसः बद्मसूत्रे च निवासं च चकार सः
गन्तुं न शक्ता हन्या च पुण्यं विष्णुसरोवरम् । श्रेष्ठं भरतवर्षेच तपःस्थानं तपस्विनाम्
तदेव पुष्करं तीर्थं प्रवदन्ति पुराविदः । राज्यभ्रष्टं हरीं दृष्ट्वा हरिभक्तो नराधिपः
बलाज्जहार तद्राज्यं नहुषो नाम धार्मिकः । दृष्ट्वा शचीं वरारोहा मनपत्यां च सुन्दरीम्
स्वर्गगङ्गं च गच्छन्तीं हृदयेन विदूयता । नवयौवनसंपन्नां रत्नालंकारभूषिताम्
सुकोमलं तां सुदतीं वदन्तीं च महासतीम् । मूर्च्छां संप्राप राजान्द्रः कामेन यौवनेन च
नहुष उवाच थातुर्गतिर्विचित्राऽहोन बौध्या च सतामपि
ईदृशी स्त्री भगाङ्गस्य लुब्धस्य परयोषिति । ईदृशी सुन्दरी यस्य परभार्यासु तन्मनः
अस्या अग्रे च का रम्भा कोर्वशी का तिलोत्तमा। का वा मेना घृताची वा रत्नमाला कलावती
कालिका सुन्दरी भद्रावती चम्पावती तथा । एदाश्चाप्सरसश्चान्याः कलां नार्हन्ति षोडशीम्
इमां विहाय मूढोऽन्यां कथं गच्छति मन्दधीः । अस्माकं योबितोऽस्याश्च चेटितुल्याश्च निश्चितम्
मां भजस्व वरारोहे सुप्रीत भव किंकरम् । यथा राधा च गोलोके कृष्णवक्षसि राजते
वैकुण्ठोरसि वैकुण्ठे यथा लक्ष्मीः सरस्वती । ब्रह्मलोके च ब्रह्माणी यथैव ब्रह्मवक्षसि
यथा मूर्तिर्महासाध्वी धर्मवक्षःस्थलस्थिता । पातालतललक्ष्मीर्वा यथैवाऽनन्तवक्षसि
यथा पुष्टिर्गणेणे च देवसेना च कार्तिके
यथारतिःकामदेवे यथा संज्ञा दिनेश्क्रे । वायोःपत्नी यथा वायौ यथा चन्द्रे च रोहिणी
यथाऽदितिर्देवमाता तव श्वश्रूश्च कश्यपे । यथा हिमालये मेना पितृकन्या च मानसी
लोपामुद्रा यथाऽगस्त्ये यथा तारा बृहस्पतौ । कर्दमे देवहूतिश्च वसिष्ठेऽरुन्धती यथा
मनौ च शतरुपेव दमयन्ती नले यथा । तथा भव त्वं सौभाग्या मम वक्षसि सुन्दरि