तस्या दर्शमुपस्पर्श नित्यं वाञ्छन्ति देवताः । ततः सर्वाणि तीर्यानि पुनन्ति पापिनो ह्यघात्
इत्युक्त्वा च महासाध्वी रुरोद च सुहुर्मुहुः । उवाच ब्रह्मा भीतश्च भक्तिनम्रात्मकंधरः
ब्रह्मोवाच भविष्यति न भद्रं च जयस्य विजयस्य च । त्वया न शप्तौ तौ मूढौ प्रियापराधभौतया
सापराधं च धर्मिष्ठः क्षमया न शपेद्यदी । सर्वनाशो भवेत्तस्य निश्चितं मा चिरं सति
यदि शप्तुं न शक्तश्च न द्ण्डं कर्तुमीश्वरः । सापराधे च पुरुषे धर्मो दण्डं करोति च
सर्वं क्षमस्व हे मार्तगच्छ प्रियान्तिकम् । मां च त्वत्स्वामिनोभक्तं नियोज्य कृष्टिकर्मणि
इत्युक्त्वा तां पुरस्कृत्वा सार्ध देवैर्मुनीन्द्रकैः । शीघ्रं जगाम वैकुण्ठं वैकुण्ठं स्तोतुमीश्वरः
तत्र गत्वा जगत्रायं तुष्टाव कमलासनः । चतुर्वक्त्रैश्चतुर्वक्त्रश्चतुर्वेदविदां गुरुम्
ब्रह्मणः क्तवनं श्रुत्वा दृषट्वा लक्ष्मीं पुरः सराम् । रुदतीं नम्रवदनामुवाच कमलापतिः
श्रीभगवानुवाच सर्वं जानामि सर्वज्ञः सर्वात्मा सर्वपालकः । सर्वशास्ता च सर्वादिकारणं कमलोद्भव
भक्ते कलत्रे बन्धौ च सर्वत्र समता मम । विशेषतोऽतिमद्भक्तः कलत्रात्पर एव च
मद्भक्तौ तव पुतौ च द्वारपालौ दुरन्तकौ । क्षम मामपराथं च तयोश्च भक्तिपूर्णयोः
मद्भक्तिपूर्णो बलवान्दैत्यैभ्यो न बिभेति च । रक्षितो मम चक्रेण भक्तिमाध्वीकदुर्मदः
इत्युक्त्वा जगतां नायो लक्ष्मीं कृत्वा स्ववक्षसि । समानीय द्वारणकं तमुवाचेदमेव च
मा भैर्वत्स सुखं तिष्ठ भयं कि ते मयि स्थिते । मद्भक्तानां च कः शास्ता गच्छ वत्साऽऽत्मनः पदम्
इत्युक्तवा भगवांस्तत्र विरराम महामुने । ययुर्देवाश्च स्वस्थातं प्रणम्य जगदीश्वरम्
नारायणवचः श्रुत्वा द्वारापाल उवाच तम् । पुलकाञ्चितसर्वाङ्गो भक्तिनम्रात्मकंधरः
जय उवाच नाहं बिभेमि देवंश्च लक्ष्मीं सुनिगणांस्तथा । त्वदीयचरणाम्भोजध्यानैकतानमानसः
इति श्रीब्लह्मo महाo श्रीकृष्णजन्मखo नारदनाo उत्तo लक्षमी- वैराग्यमोचनं नाम सप्तपञ्चाशत्तमोऽध्यायः
अथाष्टपञ्चाशात्तमोऽध्यायः नारायण उवाच बभूव दर्पः पृथ्व्याश्च सर्पाधाराऽहमेव च । पृथृद्वारा च तद्दर्पं जघान चैव तत्प्रभुः
बभूव दर्पः साविञ्या वेदमाताऽहमेव च । काले चकार तस्याश्च सपुत्राया अदर्शनम्
बभूव दर्पं गङ्गया अहं निवणिदेति च । जह्नुद्वारा च तद्दर्प जहार जगतां पतिः
जहार मनसादर्प दुर्गाद्वारा पुरा मुने । विरजोपगतं कृष्णं भर्त्सयामास कोपतः
प्रविशन्तं रासगुहं गोपीभिर्विनिवारितम् । दौवारिकाभिर्वेत्रैश्च ताडितं तं च दर्पतः
सुदाम्ना निजभक्तेन राधा शप्ता बभूव ह । देवेन सहसा ध्वस्ता गोलोकादागता धराम्
वृषभानुस्त्रियां जाता कलावत्यां च नारद । कृष्णस्तदनुरौधेन कंसभीतिच्छलेन च
समागतो नन्दगेहं तेनाहं नन्दनन्दनः । सुदाम्नः शापवीच्छैदपालनार्थ जगत्पतिः
पुनर्जगाम मथुरामित्याह कमलोद्भवः । अस्यापरमभिप्रायं को वा जनाति नारद
कथं जातः समायाते सथुरायाश्च गोकुलम् । इत्येवं कथितं सर्वमपरं श्रूयतामिति
यथा जगाम मथुरां नन्दान्स नन्दनन्दनः । शोकं नन्दो यशोदा च यथा संप्रप दैवतः