कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने । विरजा चम्पकवने शतशृङ्गे च सुन्दरी
पद्मावती पद्मवने मालती मालतीवने । कृन्ददन्ती कुन्दवने सुशीला केतकीवने
कदम्बमाला त्वं देवी कदम्बकाननेऽपि च । राजलक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे
इत्युक्तवा देवताः सर्वे मुनयो मनवस्तथा । रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः
इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् । यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद्ध्रुवम्
अभार्योलभते भार्यां विनीतां च सुतां सतीम् । सुशीलां सुनदरीं रम्यामतिसुप्रियवादिनीम्
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्
परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम् । भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम्
हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत् । कीर्तिंहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद्ध्रुवम्
सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम् । हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम्
अथ सप्तपञ्चाशत्तमोऽध्यायः नारायण उवाच देवानां स्तवनं श्रुत्वा त्यक्तवा च रोदनं सती । उवाच सुप्रसन्ना तांस्तेषां स्तोत्रेण नारद
महालक्ष्मीरुवाच त्यजामि देहं न क्रोधान्न वैराग्योण सांप्रतम् । इदं हृदि समालोच्य देवास्तच्छ्ूयतामिति
यस्मिन्सदीशे महति सर्वसाम्यो च निर्गुणे । सर्वात्मनि सदानन्दे समता तृणशैलयोः
भ्रूभङ्गलीलया लक्ष्मीर्लक्षं स्रष्टुमलं च यः । भृत्ये स्त्रियां यत्समता किं कार्य तस्च सेवया
तत्पत्नीनां प्रधानाऽहं नीरस्ता द्वारिणाऽधुना । तद्भृत्यभृत्यभृत्येन परिपूर्णेन नेप्सिता
त्यक्ष्यामि जीवनमहमसौभाग्या च स्वामिनि । वह्नौ च कामनां कृत्वा यथा भद्रं भवेत्पुरा
या स्त्री भर्तुरसौभाग्या साऽसौभाग्या च सर्वतः । शयनेऽभोजने तस्या न सुखं जीवनं वृथा
यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् । तर्त्कि पुत्रे धने रुपे संपत्तौ यौवनेऽथवा
यद्भक्तिर्नास्ति कान्ते च सर्वप्रियतमे परे । साऽशुचिर्धर्महीना च सर्वकर्मविवर्जिता
पतिर्बन्धुर्गतिर्भर्ता दैवतं गुरुरेव च । सर्वक्माच्च परः स्वामी न गुरुः स्वामिनः परः
पितामाता सुतो भ्राता क्लिष्टो दातुमिदं धनम् । सर्वस्वदाता स्वामी च मूढानं योषितां सुराः
काचिदेव हि जानाति महासाध्वी च स्वामिनम् । अतिसद्वंशजाता च सुशीला कुलपालिका
आसद्वंशप्रसूता या दुःशीला धर्मवर्जिता । मुखदुष्टा योनिदुष्टा पतिं निन्दति कोपतः
या स्त्री सर्वपरं द्वेष्टि पतिं विष्णुसमं गुरुम् । कुम्भीपाके पचति सा यावदिन्द्राश्चतुर्दश
व्रतं चानशनं दानं सत्यं पुष्यं तपश्चिरम् । पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम्
अतः रिंचिन्न वक्ष्यामि निष्ठुरं पतिमीश्वरम् । भृत्यापराधैर्देवस्य प्राणांस्तयक्ष्यामि निश्चितम्
पतिदोषे महासाध्वी पतिं न निष्ठुरं वदेत् । यदि सोढुमशक्ता च प्राणांस्त्यजति धर्मतः
पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः । पतिसेवा परो धर्मः पतिसेवा सुरार्चनम्
पतिसेवा परं सत्यं दानतौर्थानुकीर्तनम् । सर्वदेवमयः स्वामी सर्वदेवमयः शुचिः
सर्वपुण्यस्वरुपश्च पतिरुपी जनार्दनः । या सतीभर्तुरुच्छिष्टं भुङ्क्तै पादोदकं सदा