विधिद्वारा दर्पभङ्गं भवतश्च चकार सः । भवानासीन्नारदश्च पुरा पुत्रः प्रजापतेः
गन्धर्वश्च पितुः शापाच्छूद्रीपुत्रस्ततः क्रमात् । ततः पुनर्नारदश्च प्रसादादधुना विभोः
मम साध्यं विश्वमिति कामदर्पो बभूव ह । तं प्रमतं हरद्वारा भस्मसाच्च चकार सः
पुनः कृत्वा प्रसादं तं जीवयामास लीलया । ऐकान्तिकं च तद्भक्तं स च नास्त्रं करोति हि
चकार दर्पभङ्गं च दर्पिणो लक्ष्मणस्य च । रणे शंकरशूलेन रावणप्रेरितेन च
पुनस्तं जीवयामास रामस्य स्तवनेन च । स्वयं विस्मृतविष्णोश्च ब्रह्मशापेन नारद
चकार दर्पभङ्गं च कार्तवीर्यार्जुनस्य च । जामदग्न्यस्य शस्त्रेणामोघेन पर्शुना पुरा
विप्रपुत्रस्य मरणे हरणे कृष्णयोषिताम् । कर्णेन सार्धं समरे पार्थदर्पं बभञ्ज सः
बाणस्य चोषाहरणे चिच्छेद च भुजान्विभुः । भृगोश्च दक्षयज्ञे च दर्पभङ्गं चकार सः
पर्शुरामस्य रामस्य विवाहो पथि गच्छतः । बभञ्ज दर्पं समरे रामद्वारा पुरा विभुः
सुमेरोः शृङ्गभृङ्गं च वायुद्वारा चकार सः । समुद्राणां दर्पभङ्गं चकारागस्त्यभक्षणात्
अकाले सृष्टिहरणे तत्पुत्रमरणे पुरा । कोपयुक्तस्य वायोश्च दर्पभङ्गं चकार सः
उषाहरणयात्रायां द्वारकागमने हरेः । बाणस्य च गवां हेतोवंरुणं च शशाप सः
कलहे गङ्गया वाण्या नारायणाग्रतः । सरस्वतीं च तत्याज तस्या दर्पं बभञ्ज सः
दर्पयुक्तां च दुर्गां च त्यक्त्वा शंभुर्हिमालये । कामं च भस्मसात्कृत्वा तपसे च ययौ विभुः
लज्जामवाप सा देवी तस्या दर्पं बभञ्ज सः । सा ययौ तपसे विष्णोः प्राप्तिहेतोः शिवस्य च
भारते सुचिरं तप्त्वा देवी वीष्णोर्वरेण च । चकार स्वामिनं शंभुं भगवन्तं सनातनम्
महासौभाग्ययुक्ता सा बभूव शंकरप्रिया । विश्वेषु सर्वदेवीषु पूज्या वन्द्या स्तुता सुरैः
दर्पयुक्ता महालक्ष्मीर्बभूव सा महामुने । पराभूता पुरा देवी जयेन विजयेन च
प्रविशन्तीं विभोर्द्वारं दत्तवा भक्ताय वाञ्छितम् । निवारिता सा द्वाराच्च तेन दौवारिकेण वै
यदात्मनस्तिरस्कारं साभिमाना महासती । स्मृत्वा हरेः पादपद्मं देहं त्यक्तुं समुद्यता
तदा ब्रह्मा महेशश्च विष्णुर्धर्मश्च भास्करः । चन्द्रश्च कामदेवश्च वैश्वानरो धनेश्वरः
ऋषयो मुनयश्चैव मनवो विघ्ननाशकाः । महेन्द्रो वरुणश्चैव जगत्प्राणो हुताशनः
समाययूरुदन्तस्ते पद्मायाः पुरतः पुरा । तुष्टुवुश्च महालक्ष्मीं मूलप्रकृतिमीश्वरीम्
देवा ऊचुः क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे । शुद्धसत्त्वस्वरुपे च कोपादिपरिवर्जिते
उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्व मृततुल्यं च निष्फलम्
सर्वसंपत्स्वरुपा त्वं सर्वेषां सर्वरूपिणी । रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः
कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले
वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती । गङ्गा च तुलसी त्वं च वृन्दा वृन्दावने वने
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वं च वृन्दा वृन्दावने वने