पुनश्चाऽऽङ्गीरसद्वारा स्मारयामास सत्वरम् । एकदा सरथः शम्भुः प्रेरितस्त्रिपुरे पुरा
हत्वा दैत्यं शिवद्वारा त्रिपुरारिं चकार तम् । सर्वं वरं च सर्वस्मै दातुं शंभुः कृपानिधिः
स्वयं कल्पतरुर्भूत्वा प्रतिज्ञां च चकार सः । वृकासुरोऽनुष्ठानं च कृत्वा वव्रे वरं विभुम्
दास्यामि हस्तं यन्मूर्घ्नि भस्मसाद्भवतु क्षणात् । जगाद जगतां नाथ ईप्सितं ते भविष्यति
इति लब्ध्वा वरं रुद्राद्गच्छन्तं शंकरं विभुम् । हस्तं दातुं च तं मूर्ध्नि प्राधावत्सत्वरं पुरा
अतीव भीतः शंभुश्च जगाम शरणं हरिम् । भगवांश्च शिवस्यार्थे दैत्यं भस्मीचकार सः
शिवं युद्धं च कुर्वन्तं बाणयुद्धे पुरा विभुः । लीलया जृम्भणास्त्रेण जडीभूतं चकार सः
समागतं दक्षयज्ञे शंभुं दम्भेन लीलया । वारयामास भगवान्हस्तं दत्त्वा च तद्गले
केदारकन्यकाद्वारा शप्तो धर्मोऽतिदैवतः । बभूवातिकृशो भीतः कुह्वामेव यथा शशी
तदा तस्याश्च शापान्ते सत्ये पूर्णो बभुव ह । त्रिपाद्बभूव त्रेतायां द्वापरं च द्विपादिति
एकपाच्च कलौ सोऽपि कलेरन्ते पुनः क्षयः । षोडशांशोऽतिक्लिष्टश्च सस्मार चनणं विभोः
तदा सत्ययुगारम्भे परिपूर्णोऽभवत्पुनः । पुनर्युगानुरोधेन क्रमेण च पुनः क्षयः
यमो माण्डवशापेन शूद्रयोनिमवाप ह । तदा पुनः शताब्दान्ते पुनः शुद्धो बभूव ह
साम्बो विमातृशापेन गलत्कुष्ठी बभूव सः । तदा सूर्यव्रतं कृत्वा पुनः शुद्धो बभूव सः
चन्द्रो दर्पमदेनैव जहार च गुरोः प्रियाम् । बभूव दर्पभङ्गोऽस्य यक्ष्मग्रस्तो बभूव सः
सूर्यो दर्पात्तेजसश्च हन्तुं शंकरकिंकरम् । सुमालीत्यभिधं दैत्यं जगामाऽऽशु गिरिं प्रति
अहर्निशं दीप्तिकरं कुर्वन्तं विषयं रवेः । सूर्येण भीतो दैत्यश्च शंकरं शरणं ययौ
सूर्यं दृष्ट्वा शंकरश्च जग्राह शूलमेव च । भीतो दुद्राव सूर्यश्च दृष्ट्वा तं शूलिनं मुने
जघान काश्यां शूलेन शूलीकाशीश्वरो रविम् । मूर्च्छां संप्राप्य शूलेन दर्पंभङ्गो बभूव ह
सान्द्रान्धकारः सहसा जग्राह पृथिवीतलम् । आशुतोषो महादेवो जीवयामास तत्क्षणम्
तुष्टाव शंकरं सूर्यो लज्जितोऽपि भयेन च । कृत्वा तमाशिषं तुष्टो ययौ गेहं कृपानिधिः
विभुर्गरुत्मतो दर्पं बभञ्ज लीलया पुरा । निःश्वासैः प्रेरितस्यापि शिवस्य वृषभस्य च
आगच्छन्तं च वैकुण्ठं पृष्ठे कृत्वा शिवं पुरा । द्रष्टुं समागतं भक्त्या देवं नारायणं परम्
वह्निर्दपीं भृगोः शापात्सर्वभक्षो बभूव ह । गुरोः स्वभार्याहिरणाद्दर्पश्चूर्णो बभूव ह
दुर्वाससो दर्पभङ्गो बभूव ह्यम्बरीषतः । सुदर्शनेन चक्रेण विष्णोर्दुर्विषहेण च
जयस्य विजयस्यापि दर्पभङ्गं चकार सः । वैकुण्ठात्पतितस्यापि ब्रह्मशापच्छलेन च
नृसिंहेण हतः सोऽपि हिरण्यकशिपुर्यथा । सूकरेण हिरण्याक्षो लीलया च रसातले
रावणः कुम्भकर्णश्च निहतौ रामबाणतः । जन्मान्तरे च लङ्कायां ब्रह्मणा प्रार्थितस्य च
शिशुपालो हि निहतः कृष्णबाणेन लीलया । दन्तवक्रश्च सहसा परिपूर्णेऽत्र जन्मनि
सुराणां दर्पभङ्गं च दैत्यद्वारा चकार ह । असुराणां सुरद्वारा विरोधेन परस्परम्