इत्येवं कथितं सर्वं ब्रह्मन्नात्मागमो यथा
अनुग्रहं कुरु विभो विदायं देहि साम्प्रतम्
इत्युक्त्वा नारदस्तत्र धृत्वा तातपदाम्बुजम् 1.23.
कृताञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः
गच्छन्तं तनयं दृष्ट्वा विधाता जगतां मुने
करे धृत्वा समालिङ्ग्य चुचुम्ब च पुनः पुनः
स्वात्मारामेश्वरो ब्रह्मा योगीन्द्राणां गुरोर्गुरुः
कातरः पुत्रभेदेन मोहितो विष्चुमायया
श्रीब्रह्मोवाच अहं यास्यामि गोलोकं विज्ञातुं कृष्णमीश्वरम्
सनकश्च सनन्दश्च तृतीयश्च सनातनः
यती हंसी चारुणिश्च वोढुः पञ्चशिखस्तथा
वचस्करो मरीचिर्मे अङ्गिराश्च भृगुस्तथा
वसिष्ठो वशगः शश्वत्सर्वेषु च सुतेषु च
निबोध वत्स वक्ष्यामि वेदोक्तं वचनं शुभम्
धर्मार्थकाममोक्षांश्च सर्वे वाञ्छन्ति पण्डिताः
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्य्ययः
समधीत्य ततो वेदान्ददाति गुरुदक्षिणाम्
सा साध्वी कुलजा या च पतिसेवासु तत्परा आकरे पद्मरागाणां जन्म काचमणेः कुतः ।। 1.24.
असद्वंशप्रसूता या पित्रोर्दोषेण नारद
न वत्स दुष्टाः सर्वाश्च योषितः कमलाकलाः
निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति
साधुः सद्वंशजां कन्यां प्रयत्नेन परिग्रहेत्
वरं हुतवहे वासः सर्पवक्त्रे च कण्टके
मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम्
वत्स त्वं कुलजातां च पूर्वपत्नी च मालतीम्
मनुवंशोद्भवस्येह सृंजयस्य गृहे सती
गृह्णीष्व परमां रत्नमालां च कमलाकलाम्
आदौ भवेद्गृही लोको वानप्रस्थस्ततः परम् 1.24.
वैष्णवानां हरेरर्चा तपस्या च श्रुतौ श्रुता
वैष्णव त्वं गृहे तिष्ठ कुरु कृष्णपदार्चनम्