सरस्वत्याश्च दुर्गायाः पद्मायाश्च भुवस्तथा । सावित्र्याश्चैव गङ्गाया मनसायास्तथैव च
प्राणाधिष्ठातृदेव्यश्च प्रियायाः प्राणतोऽपि च । प्राणाधिकाया राधाया अन्येषामपि का कथा
ह्रत्वा दर्पं च सर्वेषां प्रसादं च चकार सः । कर्ता हर्ता पालयिता स्रष्टा स्रष्टुश्च सर्वतः
यं स्तोतुमीशो नालं च पञ्चवक्त्रैस्तु शंकरः । स्तोतुं नालं चतुर्वक्त्रो विधाता जगतामपि
स्तोतुं नालमनन्तश्च सहस्रवदनैरहो । स्वयं विष्णुर्विश्वव्यापी नालं स्तोतुं जनार्दनः
महाविराण्न शक्तोऽपि यं स्तोतुं परमेश्वरम् । कम्पिता यस्य पुरतः प्रकृतिः परमात्मनः
सरस्वती जडीभूता यं स्तोतुं परमेश्वरम् । महिमानं न जानन्ति वेदा यस्य च नारद
इत्येवं कथितो ब्रह्मन्प्रभावः परमात्मनः । निर्गुणस्य च कृष्णस्य किं भुयः श्रोतुमिच्छसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तरार्धे नारदनाo श्रीकृष्णप्रभाव- वर्णनं नाम पञ्चपञ्चशात्तमोऽध्यायः
अथ षद्पञ्चाशत्तमोऽध्यायः नारद उवाच किमपूर्वं श्रुतं ब्रह्मन्रहस्यं परमाद्भुतम् । अनन्तचरितं धन्यमनन्तस्याच्युतस्य च
कथं कृष्णो महाविष्णोर्दर्पभङ्ग चकार सः । अन्येषां वा कथमहो तद्भवान्वक्तुमर्हति
स्वतः श्रीकृष्णचरितमतीव मधुरं श्रुतौ । अतीव मधुरं रम्यं काव्यं कविमुखात्ततः
नारायण उवाच महाविष्णोरहंकारो बभूव सहसेति च । सर्वं मल्लोमकूपेषु विश्वान्येवाऽहमीश्वरः
संहारभैरवी भुत्वा तं स जग्रास लीलया । स्यिते मुर्धावशेषे च प्रसादं तं चकार सः
सर्वात्मना ध्यायमानः स्तुतो भीतं कृपानिधिः । तच्छरीरं सुसंपन्नं पुनरेव चकार सः
ब्रह्मणः सहसा ब्रह्मन्निति दर्पो बभुव ह । अहं त्रिजगतां धाता कर्ताऽहमीश्वरः स्वयम्
मत्परः पूजितो नास्ति मत्परश्च जितेन्द्रियः । इत्येवं मनसा कृत्वा बहुदर्पो बभूव ह
तं ब्रहाणां समूहं च दर्शयामास तत्क्षणम् । गोलोके स्वसमीपे च वसन्तं पुरतो विभोः
शतवक्त्रं च प्रत्येकं ब्रह्माण्डौघं च लीलया । त्यक्तुकामं स्वदेहं च व्रीडया नतकंधरम्
पुनः प्रसादं कृपया तं चकार कृपानिधिः । कालेन मोहिनीद्वारा तमपूज्यं चकार सः
स्वकन्यां दर्शयित्वा तं सकामं च चकार ह । पुनस्तद्दर्पभङ्गं च शिवद्वारा चकार सः
तत्याज लज्जया देहं पुनर्देहं दधार सः । पुनश्चकार तं पूज्यं ब्रह्माणं ब्रह्मणः प्रभुः
ज्ञानं ददौ महाज्ञानी ज्ञानानन्दः सनातनः । विष्णोर्बभूव गर्वश्च जगत्पाताऽहमीश्वरः
तमात्मविस्मृतं कृष्णश्चकार रामजन्मनि । अहं विश्वं बिभर्मीति शेषो दर्पी बभूव ह
तद्दर्पं गरुडद्वारा चूर्णीभूतं चकार सः । एकदा पूजितो नागैर्गरुडः कृष्णवाहनः
न पूजितश्च शेषेण स्वदर्पेण पुरा मुने । गरुडेन जितं कोधात्तमनन्तं मनस्विनम्
चकार मोक्षणं तस्य श्रीकृष्णश्च कृपानिधिः । स्वयं शिवः स्वदर्पाच्च विवाहं न चकार सः
तं कृत्वा मायया मोहं कारयामास स्त्रीयुतम् । पुनर्जहार तत्पत्नीं दक्षकन्यां महासतीम्
वर्ष शुशोच तद्देहं क्रोडे कृत्वा च शंकरः । नानास्थानं च बभ्राम रुदञ्छोकान्मुहुर्मुहुः
जन्मान्तरे पुनः प्राप्य तां सतीं पार्वतीं मुदा । विसस्मार च स्वज्ञानं दक्षशप्तः पुनः शिवः