धत्ते च धरणी लोकान्यद्भयेन चराचरान् । सूयते प्रकृतिः सृष्टौ यद्भयान्महदादिकम्
दुर्ज्ञेयं तदभिप्रायं को वा जानाति पुत्रक । यत्प्रभावं न जानन्ति ब्रह्मविष्णुमहेश्वराः
कथं जानामि तच्चेष्टामहं वत्स सुमन्दधीः । कथं जगाम मथुरां त्यक्त्वा वृन्दावनं वनम्
कथं तत्याज गोपीश्च राधां प्राणाधिकां प्रियाम् । यशोदां बान्धवादींश्च नन्दं व नन्दनन्दनः
दर्पहा दर्पदः सोऽपि सर्वेषां सर्वदः सदा । बभञ्ज राधादर्पं च सुदाम्नः शापकारणात्
अन्येषां भावनाहेतोर्ब्रह्मप्राप्तिस्तथा भवेत् । एवं किंचिद्वितर्कं च कुरुते कमलोद्भवः
चकार दर्पभङ्गं च महाविष्णुः पुरा विभुः । ब्रह्मणश्चतथा विष्णोः शषेस्य च शिवस्य च
धर्मस्य च यमस्यापि साम्बस्य चन्द्रसूर्ययोः । गरुडस्य च वह्नेश्च गुरोर्दुर्वाससस्तथा
दौवारिकस्य भक्तस्य जयस्य विजयस्य च। सुराणमसुराणां च भवतः कामशक्रयोः
लक्ष्मणस्यार्जुनस्यापि बाणस्य च भृगोस्तथा । सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च
सरस्वत्याश्च दुर्गायाः पद्मायाश्च भुवस्तथा । सावित्र्याश्चैव गङ्गाया मनसायास्तथैव च
प्राणाधिष्ठातृदेव्यश्च प्रियायाः प्राणतोऽपि च । प्राणाधिकाया राधाया अन्येषामपि का कथा
ह्रत्वा दर्पं च सर्वेषां प्रसादं च चकार सः । कर्ता हर्ता पालयिता स्रष्टा स्रष्टुश्च सर्वतः
यं स्तोतुमीशो नालं च पञ्चवक्त्रैस्तु शंकरः । स्तोतुं नालं चतुर्वक्त्रो विधाता जगतामपि
स्तोतुं नालमनन्तश्च सहस्रवदनैरहो । स्वयं विष्णुर्विश्वव्यापी नालं स्तोतुं जनार्दनः
महाविराण्न शक्तोऽपि यं स्तोतुं परमेश्वरम् । कम्पिता यस्य पुरतः प्रकृतिः परमात्मनः
सरस्वती जडीभूता यं स्तोतुं परमेश्वरम् । महिमानं न जानन्ति वेदा यस्य च नारद
इत्येवं कथितो ब्रह्मन्प्रभावः परमात्मनः । निर्गुणस्य च कृष्णस्य किं भुयः श्रोतुमिच्छसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तरार्धे नारदनाo श्रीकृष्णप्रभाव- वर्णनं नाम पञ्चपञ्चशात्तमोऽध्यायः
अथ षद्पञ्चाशत्तमोऽध्यायः नारद उवाच किमपूर्वं श्रुतं ब्रह्मन्रहस्यं परमाद्भुतम् । अनन्तचरितं धन्यमनन्तस्याच्युतस्य च
कथं कृष्णो महाविष्णोर्दर्पभङ्ग चकार सः । अन्येषां वा कथमहो तद्भवान्वक्तुमर्हति
स्वतः श्रीकृष्णचरितमतीव मधुरं श्रुतौ । अतीव मधुरं रम्यं काव्यं कविमुखात्ततः
नारायण उवाच महाविष्णोरहंकारो बभूव सहसेति च । सर्वं मल्लोमकूपेषु विश्वान्येवाऽहमीश्वरः
संहारभैरवी भुत्वा तं स जग्रास लीलया । स्यिते मुर्धावशेषे च प्रसादं तं चकार सः
सर्वात्मना ध्यायमानः स्तुतो भीतं कृपानिधिः । तच्छरीरं सुसंपन्नं पुनरेव चकार सः
ब्रह्मणः सहसा ब्रह्मन्निति दर्पो बभुव ह । अहं त्रिजगतां धाता कर्ताऽहमीश्वरः स्वयम्
मत्परः पूजितो नास्ति मत्परश्च जितेन्द्रियः । इत्येवं मनसा कृत्वा बहुदर्पो बभूव ह
तं ब्रहाणां समूहं च दर्शयामास तत्क्षणम् । गोलोके स्वसमीपे च वसन्तं पुरतो विभोः
शतवक्त्रं च प्रत्येकं ब्रह्माण्डौघं च लीलया । त्यक्तुकामं स्वदेहं च व्रीडया नतकंधरम्
पुनः प्रसादं कृपया तं चकार कृपानिधिः । कालेन मोहिनीद्वारा तमपूज्यं चकार सः