तिष्ठञ्जगाम गोलोकं पृथिव्यां च पुरातनः
राधामात्रे कलावत्यै ददौ सामीप्यमोक्षणम्
निबध्य धर्मसेतुं च वेदोक्तं च युगे युगे
श्रीकृष्णचरितं रम्यं चतुर्वर्गफलप्रदम्
भज तं परमानन्दं सानन्दं नन्दनन्दनम्
परमव्ययमव्यक्तं भक्तानुग्रहविग्रहम्
निर्गुणं च निरीहं च निराकारं निरञ्जनम् ।। 4.54.
इति श्रीब्रह्मैववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधिकासंवादो नाम चतुष्पञ्चाशत्तमोऽध्यायः
ॐ तत्सद्ब्रह्मणे नमः। श्रीमद्द्वैपायनमुनीप्रणीतं- ब्रह्मवैवर्तपुराणम्। अथ श्रीकृष्णजन्मखण्डस्योत्तरार्धः। अथ पञ्चपञ्चाशत्तमोऽध्यायः। नारायण उवाच स एव भगवान्कृष्णः सर्वात्मा पुरुषः परः । दुराराध्योऽतिसाध्यश्च सर्वाराध्यः सुखप्रदः
निजभक्तातिसाघ्यश्चाभक्तस्यासाध्य एव च । शश्वद्दृश्यः स्वभक्तस्याभक्तस्यादृश्य एव च
दुर्ज्ञेयं तस्य चरितं कार्यं हृदयमेव च । बद्धास्तन्मायया सर्वे मोहिताश्च दुरन्तया
यद्भयाद्वाति वातोऽयं कूर्मं धत्ते निराश्रयः । कूर्मोऽनन्तं विधत्ते च यद्भयेन निरन्तरम्
बिभर्ति शेषो विश्वं च यद्भयेन च नारद । सहस्रशीर्षा पुरुषः शिरमश्चैकदेशतः
सप्तसागरसंयुक्ता सप्तद्वीपा वसुंधरा । शैलकाननसंयुक्ता पातालाः सप्त एव च
सप्तस्वर्गाश्च विविधा ब्रह्मलोकसमन्विताः । एवं विश्वं त्रिभुवनं कृत्रिमं परिकीर्तितम्
यद्भयेन विधात्राच प्रतिसृष्टौ च निर्मितम् । एवं विश्वान्यसंरव्यानि लोमकूपैर्महान्विराट्
यद्भयेन विधत्ते च यदन्नो ध्यायते हि यम् । विष्णुः पाति च संसारं यद्भयेन कृपानिधिः
कालाग्निरुद्रो यद्भीतः कालः संहरते प्रजाः । मृत्युंजयो महादेवो यद्भयाद्ध्यायते च यम्
षड्गुणैरनुरागैश्च विरागी विरतः सदा । यद्भयेन दहत्यग्निः सूर्यस्तपति यद्भयात्
यद्भयाद्वर्षतीन्द्रश्च मृत्युश्चरति जन्तुषु । यद्भयेन यमः शास्ता पापिनीं धर्म एव च
धत्ते च धरणी लोकान्यद्भयेन चराचरान् । सूयते प्रकृतिः सृष्टौ यद्भयान्महदादिकम्
दुर्ज्ञेयं तदभिप्रायं को वा जानाति पुत्रक । यत्प्रभावं न जानन्ति ब्रह्मविष्णुमहेश्वराः
कथं जानामि तच्चेष्टामहं वत्स सुमन्दधीः । कथं जगाम मथुरां त्यक्त्वा वृन्दावनं वनम्
कथं तत्याज गोपीश्च राधां प्राणाधिकां प्रियाम् । यशोदां बान्धवादींश्च नन्दं व नन्दनन्दनः
दर्पहा दर्पदः सोऽपि सर्वेषां सर्वदः सदा । बभञ्ज राधादर्पं च सुदाम्नः शापकारणात्
अन्येषां भावनाहेतोर्ब्रह्मप्राप्तिस्तथा भवेत् । एवं किंचिद्वितर्कं च कुरुते कमलोद्भवः
चकार दर्पभङ्गं च महाविष्णुः पुरा विभुः । ब्रह्मणश्चतथा विष्णोः शषेस्य च शिवस्य च
धर्मस्य च यमस्यापि साम्बस्य चन्द्रसूर्ययोः । गरुडस्य च वह्नेश्च गुरोर्दुर्वाससस्तथा
दौवारिकस्य भक्तस्य जयस्य विजयस्य च। सुराणमसुराणां च भवतः कामशक्रयोः
लक्ष्मणस्यार्जुनस्यापि बाणस्य च भृगोस्तथा । सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च