काचिद्ददौ च ताम्बूलं भक्षणार्थे महामुने
प्रतस्थौ गोपिकासार्द्धं राधावक्षःस्थलस्थितः
क्षणं चखाद ताम्बूलं क्षणं निद्रां ययौ मुदा 4.53.
क्षणं जलविहारं च चकार यमुनाजले
स्वेच्छामयस्यात्मनश्च परिपूर्णतमस्य च
ब्रह्मविष्णुशिवादीनामीश्वरस्य परस्य च
उक्तं किशोरचरितं किं भूयः श्रोतुमिच्छसि
नारद उवाच कथं जगाम भगवान्मथुरां नन्दमन्दिरात्
नन्दो दधार प्राणांश्च विच्छेदेन हरेः कथम्
चक्षुर्निमेषविच्छेदाद्या राधा न हि जीवति
येये तत्सङ्गिनो गोपाः शयनासनभोगतः
श्रीकृष्णो मथुरां गत्वा किं किं कर्म चकार सः
श्रीनारायण उवाच जगाम तत्र भगवांस्तेन राज्ञा निमन्त्रितः
राजा प्रस्थापयामास चाक्रूरं भगवत्प्रियम्
श्रीकृष्णं च गृहीत्वा स सगणं मथुरां गतः
जघान रजकं चैव चाणूरं मुष्टिकं गजम्
कुब्जया सह शृङ्गारं कृत्वा च कौतुकेन च 4.54.
चकार कृपया विष्णुर्मालाकारस्य मोक्षणम्
तदोपनीतो भगवानवन्तीनगरं ययौ
ततो जित्वा जरासन्धं निहत्य यवनेश्वरम्
गत्वा समुद्रनिकटं निर्माय द्वारकां पुरीम्
कालिंदीं लक्ष्मणां शैब्यां सत्यां जांबवतीं सतीम्
निहत्य नरकं भूपं रणेन दारुणेन च
जहार पारिजातं च जित्वा शक्रं च लीलया
पौत्रस्य मोक्षणं कृत्वा पुनरागत्य द्वारकाम्
योगे च वसुदेवस्य तीर्थयात्राप्रसंगतः
पूर्णे च शतवर्षे च सुदाम्नः शापमोक्षणे 4.54.
पुनश्चतुर्दशाब्दं च तया सार्धं जगत्पतिः
पूर्णमेकादशाब्दं च निवृत्य नन्दमंदिरे
चकार भारहरणं पृथिव्यां पृथुविक्रमः