देवराजेन दत्तं च गजराजेन्द्रमौक्तिकम्
एतस्मिन्नन्तरे तत्र सुशीलाद्याश्च गोपिकाः
षष्टिसत्कोटिगोपीभिः सार्धं संहृष्टमानसाः 4.53.
काश्चिच्चंदनहस्ताश्च काश्चिच्चामरवाहिकाः
काश्चित्सिंदूरहस्ताश्च काश्चित्कंकतिकाकराः
काश्चिद्दर्पणहस्ताश्च पुष्पपात्रधरा वराः
काश्चिदासवहस्ताश्च काश्चिद्भूषणवाहिकाः
स्वरयंत्रकराः काश्चिद्वीणाहस्ताश्च काश्चन
गोलोकादागतायाश्च भारतं राधया सह
काश्चिच्चक्रुश्च सेवां च राधायाः श्वेतचामरैः
काचिद्ददौ च ताम्बूलं भक्षणार्थे महामुने
प्रतस्थौ गोपिकासार्द्धं राधावक्षःस्थलस्थितः
क्षणं चखाद ताम्बूलं क्षणं निद्रां ययौ मुदा 4.53.
क्षणं जलविहारं च चकार यमुनाजले
स्वेच्छामयस्यात्मनश्च परिपूर्णतमस्य च
ब्रह्मविष्णुशिवादीनामीश्वरस्य परस्य च
उक्तं किशोरचरितं किं भूयः श्रोतुमिच्छसि
नारद उवाच कथं जगाम भगवान्मथुरां नन्दमन्दिरात्
नन्दो दधार प्राणांश्च विच्छेदेन हरेः कथम्
चक्षुर्निमेषविच्छेदाद्या राधा न हि जीवति
येये तत्सङ्गिनो गोपाः शयनासनभोगतः
श्रीकृष्णो मथुरां गत्वा किं किं कर्म चकार सः
श्रीनारायण उवाच जगाम तत्र भगवांस्तेन राज्ञा निमन्त्रितः
राजा प्रस्थापयामास चाक्रूरं भगवत्प्रियम्
श्रीकृष्णं च गृहीत्वा स सगणं मथुरां गतः
जघान रजकं चैव चाणूरं मुष्टिकं गजम्
कुब्जया सह शृङ्गारं कृत्वा च कौतुकेन च 4.54.
चकार कृपया विष्णुर्मालाकारस्य मोक्षणम्
तदोपनीतो भगवानवन्तीनगरं ययौ
ततो जित्वा जरासन्धं निहत्य यवनेश्वरम्