तत्रैव रमणं कृत्वा ययौ चन्दनकाननम्
रम्ये चन्दनतल्पे च स्निग्धे चन्दनपल्लवे
कृत्वा विहारं तत्रैव ययौ चम्पककाननम्
रतिं निर्वर्त्य तत्रैव ययौ पद्मवनं प्रभुः 4.53.
सार्धं तत्र पद्ममुख्या शीतेन पद्मवायुना
विहाय निद्रां निद्रेशो ददर्श निद्रितां प्रियाम्
दृष्ट्वा मुखं च घर्माक्तं शरच्चन्द्रविनिंदितम्
संलुप्ताधररागं च संलुप्तगण्डपत्रकम्
रत्नकुण्डलयुग्मेनामूल्येन परिशोभितम्
प्रेम्णा स्वसूक्ष्मवस्त्रेण वह्निशुद्धेन माधवः
रत्नपट्टसूत्रबद्धां वामवक्त्रां मनोहराम्
ददौ सिन्दूरतिलकमधश्चन्दनमुज्ज्वलम्
चकार पत्रकं गण्डयुग्मे चित्रविचित्रितम् ।। 4.53.
चकाराधररागं च राधायाश्चानुरागतः
अमूल्यरत्नहारं च स्तनभार युगोज्ज्वलम्
वह्निशुद्धांशुकं दिव्यममूल्यं विश्वरत्नतः
प्रददौ पादयुगले रत्नमञ्जीररञ्जितम्
चकार सेवां सेव्यायाः सेव्यस्त्रिजगतां सताम्
सर्वभावविदां श्रेष्ठो बोधज्ञः कामशास्त्रवित्
प्रेम्णा च प्रददौ तस्यै सद्रत्नदर्पणं शुभम्
नानापुष्पैर्विरचितामम्लानां चन्दनोक्षिताम्
कस्तूरीकुङ्कमाक्तं च सुगन्धिचन्दनं ततः
पारिजातस्य कुसुमं दत्तं रहसि ब्रह्मणा 4.53.
कमलं निर्मलं दिव्यं सहस्रदलमुज्ज्वलम्
अतिसारं मणीन्द्राणां मणिरत्नं च कौस्तुभम्
आसवं रत्नपात्रस्थं दस्रदत्तं च निर्जने
मालतीमाधवीकुन्दमन्दारचम्पकादिकम्
सुदुर्लभं च ताम्बूलं कर्पूरादिसुसंस्कृतम्
सुदुर्लभं च विश्वेषु वाक्पतेः परिनिर्मितम्
अतिसूक्ष्ममनुपमं दत्तं भक्त्या विराजितम्