स्वयं राधां करे धृत्वा पूर्वोक्तं रतिमन्दिरम्
नानाप्रकारशृङ्गारं कामशास्त्रविशारदः 4.52.
बभूव सुरतिस्तत्र सुचिरं च तयोर्मुने
एवं तौ तस्थतुस्तत्र राधाकृष्णौ रसोत्सुकौ
नारद उवाच निमित्तमस्य मां भक्तं वद भक्तजनप्रिय
श्रीनारायण उवाच जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता
गरीयसी त्रिजगतां माता शतगुणैः पितुः
कृष्णराधेशगौरीति लोके न च कदा श्रुतः
गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर
इति दृष्टं सामवेदे कौथुमे मुनिसत्तम
धाशब्दोच्चारतः पश्चाद्धावत्येव ससंभ्रमः
स भवेन्मातृघाती च वेदातिक्रमणे मुने 4.52.
ततो वृन्दावनं पुण्यं राधापादाब्जरेणुना राधिका चरणाम्भोजपादरेणूपलब्धये
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधामाधवयो रासवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः
समतीते पूर्णरासे किं चकार जगत्पतिः
श्रीनारायण उवाच स्वयं रासेश्वरस्तस्माद्यमुनापुलिनं ययौ
तत्र स्नात्वा जलं पीत्वा निर्मलं निर्मले जले
ततो जगाम भगवान्भाण्डीरं राधया सह
क्रीडां चकार रहसि भाण्डीरे मालतीवने
कृत्वा क्रीडां च तत्रैव वासन्तीकाननं ययौ
तत्रैव रमणं कृत्वा ययौ चन्दनकाननम्
रम्ये चन्दनतल्पे च स्निग्धे चन्दनपल्लवे
कृत्वा विहारं तत्रैव ययौ चम्पककाननम्
रतिं निर्वर्त्य तत्रैव ययौ पद्मवनं प्रभुः 4.53.
सार्धं तत्र पद्ममुख्या शीतेन पद्मवायुना
विहाय निद्रां निद्रेशो ददर्श निद्रितां प्रियाम्
दृष्ट्वा मुखं च घर्माक्तं शरच्चन्द्रविनिंदितम्
संलुप्ताधररागं च संलुप्तगण्डपत्रकम्
रत्नकुण्डलयुग्मेनामूल्येन परिशोभितम्
प्रेम्णा स्वसूक्ष्मवस्त्रेण वह्निशुद्धेन माधवः