इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः
जग्मुर्नागाः प्रहृष्टाश्च फणाराजिविराजिताः 4.51.
विधिना मातरं भक्तिमास्तीकश्च चकार ह
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत्
सर्वेषां दर्पभङ्गश्च कथितश्च श्रुतस्त्वया
अधुना च समुत्तिष्ठ गच्छ वृन्दावनं वनम्
श्रीनारायण उवाच उवाच कृष्णं नय मां न शक्ता गंतुमीश्वर
राधिका वचनं श्रुत्वा प्रहस्य मधुसूदनः
सा मनोयायिनी राधा कृत्वा च रोदनं क्षणम्
विवेश चन्दनवनं रुदन्ती शोककातरा
ताम्रास्या पूर्णनयना भ्रमन्ती सर्वकाननम्
ता दृष्ट्वा राधिका सा च प्रेमविच्छेदकातरा
विनिन्द्य कृष्णं कोपेन तर्जयामास च क्षणम् ।। 4.52.
एतस्मिन्नंतरे कृष्णस्तत्र चन्दनकानने
राधा गोपाङ्गनाभिश्च दृष्ट्वा प्राणेश्वरं मुदा
तूर्णं कृष्णं समाश्लिष्य जहार मुरलीं रुषा
पुनः संधारयामास वस्त्रं मालां मनोहराम्
चन्दनागुरुकस्तूरीकुङ्कुमाक्तं चकार तम् १
क्षणं संतर्जयामास क्षणं स्तोत्रं चकार ह
अथ गोपाङ्गनाः सर्वा रुरुदुः प्रेमविह्वलाः
देहत्यागं च स्नानं च स्वाहारस्य विसर्जनम्
क्षणं तं भर्त्सयामासुः स्तोत्रं चक्रुः क्षणं मुदा
काश्चिदूचुः प्राणचोरं पश्य रक्षेति संततम् 4.52.
काश्चिदूचुरिमं मध्ये यूयं कुरुत सत्वरम्
काश्चिदूचुरयं नास्ति प्रतीतिर्न कदाचन
काश्चिदूचुर्निष्ठुरोऽयं नरघातीति कोपतः
निर्जनानि च रम्याणि यानि यानि वनानि च
एवं तं गोपिकाः सर्वा मध्ये कृत्वा सदीश्वरम्
रासं गत्वा स्वर्णपीठे तस्थौ स रसिकेश्वरः
नानामूर्तीर्विधायात्र सह ताभिर्जनार्दनः