नागलक्षसमायुक्तं सिद्धमन्त्रेण मन्त्रितम्
धन्वतरिर्नागपाशं दृष्ट्वा च सस्मितो मुदा
सर्पास्त्रमागतं दृष्ट्वा गरुडो हरिवाहनः 4.51.
नागास्त्रं निष्फलं दृष्ट्वा कोपरक्तेक्षणा भृशम्
भस्ममुष्टिं मन्त्रपूतां दृष्ट्वा च प्रेरितां यथा
निरस्तां भस्ममुष्टिं च दृष्ट्वा देवी चुकोप ह
शिवदत्तं च शूलं च शतसूर्यसमप्रभम्
अथ ब्रह्मा तथा शंभुराजगाम रणाजिरम्
दृष्ट्वा शंभुं जगद्गौरी विधिं च जगतां पतिम्
धन्वन्तरिश्च गरुडः प्रणनाम सुरेश्वरौ
उवाच ब्रह्मा मधुरं हितं धन्वतरिं मुदा
ब्रह्मोवाच रणं ते मनसा सार्द्धं न हि साम्यं च मे मतम्
शिवदत्तेन शूलेन दुर्निवार्येण सर्वतः 4.51.
ध्याने कौथुमशाखोक्तं कृत्वा भक्त्या समाहितः
आस्तिकोक्तेन स्तोत्रेण स्तवनं कर्तुमर्हसि
ब्रह्मणो वचनं श्रुत्वा चकारानुमतिं शिवः
एषां च वचनं श्रुत्वा स्नात्वा शुचिरलंकृतः
धन्वन्तरिरुवाच पूज्या त्वं त्रिषु लोकेषु पुरा कश्यपकन्यके
त्वया जितं जगत्सर्वं देवि विष्णुस्वरूपया
इत्युक्त्या संयतो भूत्वा भक्तिनम्रात्मकंधरः
चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम्
सुचारुकबरीशोभां रत्नाभरणभूषिताम्
सर्वविद्याप्रदां शान्तां सर्वविद्याविशारदाम् 4.51.
ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम्
स्तोत्रं चकार यत्नाच्च पुलकाञ्चितविग्रहः
धन्वतरिरुवाच नमः कश्यपकन्यायै वरदायै नमो नमः
नमः शंकरकन्यायै शंकरायै नमो नमः
नम आस्तीकजननि जनन्यै जगतां मम
नमो नागभगिन्यै च योगिन्यै च नमो नमः
नमस्तपस्यारूपायै फलदायै नमो नमः