मनसोवाच भद्राभद्रं दैवसाध्यं करिष्यामि यथोचितम्
तं शत्रुं संहरिष्यामि लीलया समरस्थले
यदि ब्रह्मादयो देवाः समायान्ति रणस्थले 4.51.
गुरुर्मे भगवाञ्छेषः सिद्धमन्त्रं च दत्तवान्
बिभर्मि कवचं कण्ठे परं त्रैलोक्यमङ्गलम्
शिष्याऽहं मंत्रशास्त्रेषु शंभोर्भगवतः पुरा
शंभोश्च शिष्यो गरुडो गणयामि न तं ध्रुवम्
इत्युक्त्वा सा जगामैका त्यक्त्वा नागगणान्रुषा
यत्र धन्वन्तरिर्देवः प्रसन्नवदनेक्षणः
दृष्टिमात्रेण सर्वाश्च जीवयामास सुन्दरी
धन्वन्तरिस्तु भगवान्मन्त्रशास्त्रविशारदः
दृष्ट्वा धन्वंतरिं देवी प्रहस्योवाच सत्वरम्
मनसोवाच वद जानासि किं सिद्ध शिष्योऽसि गरुडस्य च ।। 4.51.
अहं च वैनतेयश्च शिष्यौ शंभोश्च विश्रुतौ
इत्युक्त्वा सरसः पद्मं समानीय जगत्प्रसूः
दृष्ट्वाऽऽगतं पद्मपुष्पं ज्वलदग्निशिखोपमम्
तच्च धन्वतरिर्दृष्ट्वा समंत्ररेणुमुष्टिना
देवी जग्राह शक्तिं च ग्रीष्मसूर्यसमप्रभाम्
दृष्ट्वा जाज्वल्यमानां तां शक्तिं धन्वतरिः स्वयम्
तां च शक्तिं वृथा दृष्ट्वा प्रजज्वालेश्वरी रुषा
नागलक्षसमायुक्तं सिद्धमन्त्रेण मन्त्रितम्
धन्वतरिर्नागपाशं दृष्ट्वा च सस्मितो मुदा
सर्पास्त्रमागतं दृष्ट्वा गरुडो हरिवाहनः 4.51.
नागास्त्रं निष्फलं दृष्ट्वा कोपरक्तेक्षणा भृशम्
भस्ममुष्टिं मन्त्रपूतां दृष्ट्वा च प्रेरितां यथा
निरस्तां भस्ममुष्टिं च दृष्ट्वा देवी चुकोप ह
शिवदत्तं च शूलं च शतसूर्यसमप्रभम्
अथ ब्रह्मा तथा शंभुराजगाम रणाजिरम्
दृष्ट्वा शंभुं जगद्गौरी विधिं च जगतां पतिम्
धन्वन्तरिश्च गरुडः प्रणनाम सुरेश्वरौ